Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay

View full book text
Previous | Next

Page 180
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता १६३ कविषयित्वस्य सम्बन्धत्वविवक्षणेन व्यापकत्वाक्षतेः, समानाकारकशानेषु विषयिताभेदस्याप्रामाणिकतया ईश्वरक्षानीयविषयिताया अपि प्रतिवध्यतावच्छेदकत्वात् । न च स्वाश्रयज्ञानसामग्रीप्रयोज्याया जन्यशानीयविषयितायास्तद्प्रयोज्यभगवज्ञानीयविषयितातः कथमभेद इति वाच्यम् ; विषयितायाः सामग्रीप्रयोज्यत्वानङ्गीकारात् । तत्सम्बन्धस्यैव तदङ्गीकारात् । अत एव यद्विषयकत्वेनेत्यादिहेत्वाभासलक्षणे विषयितासामान्ये स्वरूपसम्बन्धरूपावच्छेदकत्वनिवेशपक्षे नासम्भवोऽव्याप्तिर्वाभिहितः। नूतनालोकः त्वस्यापि जन्यतारूपप्रतिवध्यतावच्छेदककोटौ निवेशनीयत्वात् स्वावच्छेदकीभूतभेदप्रतियोगित्वमीश्वरज्ञानसाधारणमेवेति कथमसम्भव इति वाच्यम् ; नित्यसाधारणधर्मस्यापि कार्यतावच्छेदकत्वे बाधकाभावेन प्रतिवध्यतावच्छेदककोटावीश्वरज्ञानान्यत्वस्यानिवेशनीयत्वात् । अत एवोक्तं “जन्यस्नेहत्वं तथा बोध्यम्” इति मुक्तावलीपतिव्याख्यानावसरे-"जन्यपदं न देयमेव" इति महादेवेन । कालिकसम्बन्धानुयोगित्वस्य लघोर्निवेशेनैव नित्यज्ञानव्यावृत्तिसम्भवाच्चेत्याशयः । न चैवं सति स्वावच्छेदकीभूतभेदप्रतियोगित्वस्य सम्बन्धघटकत्वे प्रयोजनाभावः, लौकिकप्रत्यक्षादिविषयिताया अपि प्रतिवध्यतावच्छेदकत्वादिति वाच्यम् ; नियताहार्यज्ञानीयविषयितायाः कथमपि प्रतिवध्यतानवच्छेदकतया तत्साधारण्याय तदावश्यकत्वात् । अनङ्गीकारादिति। कथं तर्हि जन्यज्ञानीयविषयितायास्तत्सामग्रीप्रयोज्यत्वव्यवहार इत्यत आह.-तत्सम्बन्धस्यैवेति । तथा चौपचारिक एव तादृशव्यवहार इति भावः । अत एव जीवेश्वरज्ञानीयविषयितयोरैक्यस्वीकारादेव । अन्यथा प्रतिबन्धकतानवच्छेदकभगवज्ज्ञानीयविषयितायाः सामान्यान्तर्गततयाऽसम्भवप्रसक्तेः । न च भगवज्ज्ञानस्यापि बाधनिश्चयविधया प्रतिबन्धकत्वेन तद्विषयिताया अप्यवच्छेदकत्वमव्याहतमेवेति वाच्यम् ; भगवज्ज्ञानस्य प्रतिबन्धकत्वाङ्गीकारे मानाभावादिति भावः । ननु लाधवादीश्वरज्ञानसाधारणतदभाववत्तानिश्चयत्वेनैव प्रतिबन्धकत्वं स्वीक्रियते, तथा च नासम्भवः; अत आह-अव्याप्तिति । पक्षावृत्त्यसाधारण्यादावित्यादिः । अयमाशयः - वहिव्यापकीभूताभावप्रतियोगिजलादिरूपासाधारण्यविषयकनिश्चयस्य पर्वतादिविशेष्यकजलवत्तानिश्चयविशिष्टत्वेनैव प्रतिबन्धकत्वं वक्तव्यम् । वैशिष्टयं च सामानाधिकरण्य-कालिकविशेषणत्वैतदुभयरूपं नित्यव्यावृत्तमिति भगवज्ञाने तादृश For Private And Personal Use Only

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215