Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay

View full book text
Previous | Next

Page 194
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका तत्प्रकाशटिप्पण्योपबृंहिता १७७ कानन्तरमेवाभावप्रतीत्यनुपगमादिति वाच्यम् ; तथा सति विशेषाभावेन वह्नित्वनिर्विकल्पकानन्तरं वह्नित्वे प्रतियोगितावच्छेदकत्वानवगाहिनो वह्निर्नास्तीत्याकारकप्रत्ययस्यापि स्वीकारापत्तेः । स्पष्टं चेदं चक्रवर्तिलक्षणादौ । इत्थं चोक्तपर्याप्तिनिवेशेनैव तादृशप्रतिबन्धकतात्वेन घटाभावादेावृत्तिः। ___अथवा प्रतियोगितायां तादृशप्रतिवध्यतानिरूपितत्व प्रतिबन्धकतात्वोभयत्ववृत्तित्वविवक्षणान्न कोऽपि दोषः। वृत्तित्वं च स्वनिरूपितावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्व-स्वपर्याप्त्यनुयोगितावच्छेदक - वृत्तित्वोभयसम्बन्धेनेत्यलमधिकेन । नूतनालोकः घटत्वादिनिर्विकल्पकानन्तरमुत्पादापत्तिरिति यदवभासत इत्युक्तम् । प्रतियोगितावच्छेदकत्वानवगाहिन इति । वह्नित्वादौ प्रतियोगितावच्छेदकतासत्त्वेऽपि विशेष्ये विशेषणमिति रीत्या वह्नित्वाद्यवगाहिन इत्यर्थः । प्रतियोगिविशेषिताभावप्रतीतिविशिष्टवैशिष्ट्यमर्यादां नातिशेत इति नियमस्त्विदानीमप्रयोजक इति भावः। स्वीकारापत्तेरिति । न चेष्टापत्तिः, अनुभवविरोधात्, वह्निमत्यपि वह्निर्नास्तीति बुद्धयापत्तेश्चेति भावः । समानाधिकरणधर्मस्य प्रतियोगितानवच्छेदकत्वमते त्वाह-अथवेति । न च तादृशप्रतिबन्धकतात्वावच्छिन्नावच्छेदकताकप्रतियोगिताकभेद एव निवेश्यताम् ? व्यधिकरणधर्मावच्छिन्नावच्छेदकताकप्रतियोगिताकभेदानङ्गीकारेण तादृशभेदमादायातिव्याप्तेरनवकाशात् । घटत्वेन वह्निमान् नेति प्रतीतौ घटत्वावच्छिन्नवह्नयत्यन्ताभावस्यैव विषयत्वोपगमादिति वाच्यम् ; व्यधिकरणधर्मावच्छिन्नात्यन्ताभाववादिमते तादृशधर्मावच्छिन्नावच्छेदकताकभेदस्यापि तुल्ययुक्त्याऽङ्गीकरणीयत्वात् । अत एव “समवायितया वाच्यत्ववद्भेदोऽपि द्रष्टव्यः" इति मिश्राभिधानसङ्गतिः। स्पष्टं चेदं चक्रवर्तिलक्षणे। एतत्पने प्रतियोग्यवृत्तिश्चेत्यादिप्रन्थस्तूपलक्षणम् । स्वपर्याप्त्यनुयोगितावच्छेदक आलोकप्रकाशः कल्पकानन्तरं वह्निर्नास्तीति बुद्धिप्रसङ्ग इत्यत आह-वह्निमत्यपीति । वह्निर्नास्तीति बुद्धयापत्तेश्चेति । महानसीयवह्नयाद्यभावमादायेत्यादिः। मूले इदमिति । समानाधिकरणधर्मान्तर्भावेन पर्याप्तत्वम् । चक्रवर्तिलक्षणादाविति । चक्रवर्तितृतीयलक्षणे व्यधिकरणधर्मावच्छिन्नाभावखण्डनावसरे च गादाधर्यामित्यर्थः । व्याख्यायाम्-चक्रवर्तिलक्षण इति । चक्रवर्तितृतीयलक्षणव्याख्यानावसर इत्यर्थः । उपलक्षणमिति । प्रतियोगितावच्छेदकावृत्तिश्च धर्मो न प्रतियोगितावच्छेदकतावच्छेदक इत्यर्थस्यापि न्यूनतापरिहाराय वाच्यत्वादिति भावः । २३ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215