Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay

View full book text
Previous | Next

Page 153
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'नच' रत्नमालिका नूतनालोकः इत्थश्च न प्रतिवध्यतावच्छेदकस्य प्रतिवध्यताघटितत्वेनान्योन्याश्रयोऽपीति वाच्यम् ; एवं सति वह्नयभाववान हृद इत्याहार्यस्यापि बाधात्वापत्त्या तत्समानकालीनभिन्नविषयकानुमितिसामग्रीकालीनेच्छाजन्यस्य हृदो वह्निमानिति ज्ञानस्याहार्यत्वापत्तेरिति दिक्। केचित्तु ज्ञानविशिष्टप्रत्यक्षत्वावच्छिन्नजन्यतासम्बन्धेनेच्छाविशिष्टा - न्यत्वरूपमनुगतमनाहार्यत्वं सुवचम्, बाधनिश्चयोत्तरप्रत्यक्षत्वस्येच्छाजन्यतावच्छेदकत्वात् । ज्ञानवैशिष्टयश्च जन्यतायां स्वोत्तरत्वसम्बन्धावच्छिन्नस्वनिष्टावच्छेदकताकत्वसम्बन्धेन। इत्थश्च भिन्नविषयकानुमितिसामग्रीकालीनेच्छाजन्यप्रत्यक्षस्य नानाहार्यत्वानुपपत्तिः, तत्रेच्छाजन्यतायाः सामग्र्युत्तरप्रत्यक्षत्वावच्छिन्नतया ज्ञानानवच्छिन्नत्वात् । यदि चानुमितिसामयाः पक्षतादिविशिष्टपरामर्शादिरूपतयाऽनुमितिसामग्युत्तरप्रत्यक्षत्वावच्छिन्नजन्यताज्ञानावच्छिन्नैवेत्युच्यते, तदा वैशिष्टयघटकज्ञाननिष्ठावच्छेदकताया इच्छाघटितधर्मानवच्छिन्नत्वेन विशेषणान्न दोषः, उक्तप्रत्यक्षत्वावच्छिन्नेच्छाजन्यतावच्छेदकतायाः सिषाधयिषाविरहविशिष्टसिद्धयभावरूपपक्षता. . आलोकप्रकाशः : बाधादिनिश्चयमादाय नानुपपत्तिः। न च वह्नयभावव्याप्यत्वांशे आहार्यात्मकः संशयात्मको वा यो वह्नयभाववत्तानिश्चयः, तत्कालीनेच्छाजन्यस्य वह्निमत्ताज्ञानस्यानाहार्यत्वानुपपत्तिरिति वाच्यम् ; ज्ञाने स्ववैशिष्ट्यघटकपूर्वोक्तद्वितीयसम्बन्धस्थाने स्वविशिष्टप्रतिवध्यतानिरूपितप्रतिबन्धकताविशिष्टत्वं विवक्ष्यते । प्रतिबन्धकतावैशिष्ट्यञ्च-स्वावच्छेदकीभूतभेदप्रतियोगितासम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्व-स्वावच्छेदकीभूतविषयितावत्वोभयसम्बन्धेन । प्रतिवध्यतायां स्ववैशिष्ट्यं च पूर्वोक्तमेव । न चैवमप्येकरूपेण प्रतिबन्धकतापक्षे वयभाववजलवद्वृत्तिजलवत्त्वांशे आहार्यायात्मकस्य . वह्नयभाववच्छेवालववृत्तिशैवालवत्तानिश्चयस्योक्तसम्बन्धेन प्रतिबन्धकताविशिष्टत्वासम्भवेन तत्कालीनेच्छाजन्यवह्निमत्ताबुद्धेरनाहार्यत्वापत्तिः। जलवान् वह्नयभाववान् जलवांश्च ह्रद इत्यादिविशकलितज्ञानस्य स्वविशिष्टानुमित्यवृत्तिरूपावच्छिन्नविषयिताकत्वाभावेन तत्कालीनेच्छाजन्यस्यानाहार्यत्वापत्तिश्चेति वाच्यम् , तद्धर्मावच्छिन्नविशेष्यकतद्धर्मावच्छिन्नाभावप्रकारकनिश्चयप्रतिवध्यतावच्छेदकमनाहार्यत्वं तद्धर्मावच्छिन्नविशेष्यकतद्धर्मावच्छिन्नप्रकारकानुमितित्वव्यापकप्रतिवध्यतानिरूपितप्रतिबन्धकत्वाश्रयतद्धर्मावच्छिन्नविशेष्यकतधर्मावच्छिन्नाभावप्रकारकनिश्चयकालीनेच्छाजन्यत्वाभावरूपमिति- रीत्या. विशिष्यैव निर्वाच्यमित्यदोषादिति । तदसत् । प्रतिवध्यतावच्छेदकीभूतधर्मस्य प्रतिवध्यताघटितत्वेनान्योन्याश्रयप्रसङ्गात् । प्रत्यक्षत्वा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215