Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तरप्रकाशटिप्पण्योपबृंहिता वध्यतानवच्छेदकत्वात्तादृशप्रतिवध्यत्वाप्रसिद्ध या अव्याप्त्यापत्तेः । सामान्यपदस्य व्यापकत्वार्थपर्यवसायितया लाघवानवकाशाच। एवं च साध्यवत्तानुमितित्वव्यापकत्वमेव विवक्षितुमुचितमिति ।।
न चैवं सति इच्छासामग्री विधया पूर्वोक्तज्ञानसामान्यप्रतिबन्धकतामादायासम्भव इति वाच्यम् : फलेच्छासाहित्येनैवेष्टसाधनत्वादिज्ञानस्य प्रतिबन्धकतया इच्छायाः पूर्व परतो वा तदुत्पादे पूर्वक्षणे उत्तरक्षणे वा तादृशक्षाने प्रतिबन्धकत्वाभावाबाधात् ।
न चैवं सति धूमवान् वढेरित्यादावतिव्याप्तिः, अयोगोलकं धूमाभाववदिति प्रमाप्रतिवध्यताया अयोगोलकत्वनिष्टजातित्वाद्यवच्छिन्नावच्छेदकताकविशेष्यताकज्ञानसाधारणसाम्यवत्तानुमितित्वाव्यापकत्वादिति वाच्यम् ; स्वधर्मितावच्छेदकनिष्ठनिरवच्छिन्नावच्छेदकताकसाध्यवत्तानुमितित्वव्यापकत्वस्यैव प्रतिवध्यतायां विवक्षणेनोक्तप्रमाप्रतिवध्यताया अपि तथात्वेनातिव्याप्त्यनवकाशात् ।
मूतनालोकः वध्यत्वाप्रसिद्धेः । न च तत्र भिन्नविषयकानुमितिसामग्रीप्रतिवध्यता तादृशी प्रसिद्धैवेति वाच्यम् ; तादृशप्रतिवध्यतायाः प्रत्यक्षमात्रनिष्ठतया तादृशप्रकारतासामान्यान्तर्गतविधेयत्वानवच्छिन्नत्वात् । तादृशप्रकारतायां लौकिकविषयताभिन्नत्वविवक्षणे त्वाह-सामान्य पदस्येति । ज्ञानत्वव्यापकत्वनिवेशेऽनाहार्यत्वादेनिवेशनीयतया गौरवादाह-अनुमितित्वव्यापकत्वमेवेति । फलेच्छासाहित्येनेति । वस्तुतस्तु प्रतिवध्यतायां विषयित्वावच्छिन्नत्वविवक्षणादेव तद्वथावृत्तिर्बोध्या। निरवच्छिन्नावच्छेदकताकेत्यादि । न चैवमसम्भवः, प्रमेयस्वादिसखण्डधर्मितावच्छेदककसाध्याभावप्रमाया अपि सामान्यान्तर्गततया स्वीय
आलोकप्रकाशः स्यैव निवेशनीयता तज्ज्ञानसामान्यस्य तथात्वोपपत्तः। अतीन्द्रियसाध्यक इति । योग्यायोग्यवृत्तिसाध्यतावको दकक इत्यर्थः । रूपादिसाध्यक इति यावत् । तेन गुरुत्वादिसाध्यकस्थले साध्यतावच्छेदकावच्छिन्नलौकिकविषयताया अप्रसिद्धया पूर्वोक्तप्रकारतासामान्यावच्छिन्नप्रति वध्यत्वप्रसिद्धावपि न क्षतिः। असम्भवेनेति । रूपसामान्याभावस्यातीन्द्रियानुद्भूतरूपप्रति योगिकत्वेन प्ररक्षायोग्यचादिति भावः ।
मूले- उत्तरक्षण इति । इच्छोत्पत्तितृतीयक्षण इत्यर्थः । व्याख्यायाम-विवक्षणेनेति । न चैवं सावच्छिन्न वच्छेदकताकविशेष्यताकप्रमायाः कुत्रापि लक्षणघटकत्वं न स्यादिति शङ्कयम;
For Private And Personal Use Only

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215