Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६
'न च' रत्नमालिका न च प्रतिवध्यतायाः स्वीयविशेष्यतावच्छेदकावच्छिन्नविशेष्यतानिरूपितसाध्यतावच्छेदकावच्छिन्नप्रकारतासामान्यावच्छिन्नत्वविवक्षणानोक्तप्रतिव यतामादायासम्भवः, संशयीयतादृशप्रकारतायास्तदनवच्छेदकत्वादिति वाच्यम् ; एवं सति तादृशविषयतासामान्यान्तर्गताया लौकिकविषयताया बाधादिनिश्चयप्रति
. नूतनालोकः तादृशप्रकारतायास्तदनवच्छेदकत्यादिति । निश्चयत्वस्य प्रतिवध्यतावच्छेदकघटकत्वादिति भावः । लौकिकविषयताया बाधनिश्चयप्रतिवध्यतानवच्छेदकतयेति । प्रतिवध्यतावच्छेदकघटकलौकिकसन्निकर्षाजन्यत्वस्य प्रकारतायां लौकिकविषयताभिन्नत्वपर्यवसायित्वादिति भावः । न च लौकिकतदभाववत्तानिश्चयकाले लौकिकतद्वत्ताबुद्धिवारणाय लाघवाल्लौकिकत्वं प्रतिवध्यतावच्छेदककोटावनिवेश्य तद्वत्ताबुद्धिसामान्यं प्रति तादृशनिश्चयत्वेन प्रतिबन्धकत्वान्तरस्य कल्पनीयतया न तादृशप्रतिवध्यत्वाप्रसिद्धिरिति वाच्यम् ; अतीन्द्रियसाध्यके लौकिकतदभाववत्तानिश्चयस्यैवासम्भवेन तादृशप्रति
आलोकप्रकाशः निश्चयत्वस्य प्रतिवध्यतावच्छेदकघटकस्वादिति । न च संशयनिश्चयांवेषयतया रैवयानिश्चयत्वस्य प्रतिवध्यतावच्छेदकघटकत्वेऽपि तादृशप्रकारतासामान्यावच्छिन्नत्वं निरुक्तसामग्री प्रतिवध्यतायां सम्भवत्येवेति वाच्यम् ; निश्चयीयतादृशप्रकारतायाः संशयसाधारण्यं दुर्घटमिति तद्विषयतयोरैक्यासम्भवात् । तथाहि-समुच्चयवैलक्षण्याय संशये एका विशेष्यता स्वीक्रियत इत्येकः पक्षः । कोटिविषयतयोरवच्छेद्यावच्छेदकभाव इत्यपरः पक्षः। कोटिताख्यविलक्षणविषयतेत्यन्यः पक्षः। कोट्योर्विरोधमानमितीतरः पक्षः। एतत्तत्त्वमुपरिष्टाद्वयक्तीभविष्यति । तत्राचरमे पक्षे संशयीयविषयताया विलक्षणत्वेन निश्चयसाधारण्यमप्रसक्तमेव । चरमपक्षे ताया वह्नयभावविरुद्धवह्निमानित्यादिविरोधावगाहिनिश्चयसाधारण्यसम्भवेऽपि साध्यतावच्छेदकपयांशावच्छेदकताकप्रकारताया एव प्रकृते विवक्षितत्वाद्विरोधानवगाहिनिश्चयमात्रस्थया तया तदवगाहिसंशयीयविषयताया ऐक्यं नैव सम्भवतीति । लौकिकविषयताभिन्नत्वपर्यवसायित्वादिति । अन्यथा धााशे लौकिक-यासंग्रहापत्तेरिति भावः। तद्वत्ताबुद्धिसामान्यं प्रतीति । न चोक्तप्रतिवध्यप्रतिबन्धकभावावच्छेदककोटौ दिनकरोक्तरीत्या तत्तदिन्द्रियजन्यत्वनिवेशनस्यावश्यकतया कथं तद्वत्ताबुद्धिसामान्यस्य लौकिकतदभाववत्तानिश्चयप्रतिवध्यत्वम् , चाक्षुषादेरेव तथात्वादिति वाच्यम ; चक्षुरादीन्द्रियभेदेनेव विषयभेदेना युक्तप्रतिवध्यप्रतिबन्धकभावस्य भिन्नतया प्रमायभावलौकिक चाक्षुपादिप्रतिवध्यतावच्छेदककोटौ चाक्षुषत्वादिनिवेशे प्रयोजनाभावेन तन्निष्ठप्रकारताकबुद्धित्व
For Private And Personal Use Only

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215