Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay

View full book text
Previous | Next

Page 175
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५८ 'न च' रत्नमालिका विशेषणतावच्छेदकप्रकारकनिर्णयविधया पर्वतो वह्निमानिति प्रत्यक्षसामग्रीघटकत्वादुक्तापत्तेरवारणादित्युक्तरूपेण प्रतिबन्धकत्वं सम्भवत्येवेति वाच्यम् ; तथा सति समानविषयकप्रत्यक्षसामग्रीदशायामनुमित्यापत्तेरवारणात् । पूर्वक्षणे प्रत्यक्षानुदयेन, तत्क्षणे तद्वैशिष्टयघटकप्रागभावाभावेन च तत्सामग्र्याः प्रत्यक्षविशिष्टत्वासम्भवात् । नूतनालोकः प्रत्यक्षविशिष्टत्वासम्भवादिति । तथा च प्रतिबन्धकतावच्छेदकविशिष्टप्रतिबन्धकसत्त्वमेव कार्यानुत्पादप्रयोजकमिति तत्काले पूर्वकाले वा तदभावात्तदानीमनुमित्युत्पत्तेरशक्यवारणतया सामग्रीप्रतिबन्धकत्वकल्पनमेव निरर्थकं स्यादिति भावः । न च द्वितीयक्षणे जायमानं कार्यमादाय प्रथमक्षणे तद्विशिष्टत्वं सम्भवत्येव, अन्यथा कार्यनियतपूर्ववृत्तित्वादिरूपकारणादिलक्षणं कथमुपपद्यतेति वाच्यम् ; यतः कारणतावच्छेदकावच्छिअस्य पूर्ववृत्तित्वमेव कार्योत्पत्तावपेक्षितम् , न तु कारणताविशिष्टस्येति तस्य पूर्ववृत्तित्वासम्भवेऽपि न क्षतिः, प्रकृते तु कार्यविशिष्टत्वरूपप्रतिबन्धकतावच्छेदकावच्छिन्नस्य पूर्वक्षणाद्यवच्छेदेन सत्त्वमेव कार्यानुत्पादप्रयोजकमिति तदसम्भवे प्रतिबन्धकसमवधानदशायामपि कार्योत्पत्तेरशक्यवारणतया निरुक्तरूपेण प्रतिबन्धकत्वमसम्भवदुक्तिकमेवेति । आलोकप्रकाशः - मूले--प्रत्यक्षानुदयेनेति । तथा च पूर्वक्षगस्य विशेषणानधिकरणत्वान्न प्रतिबन्धकतावच्छेदकविशिष्टाधिकरणत्वमिति भावः। प्रत्यक्षविशिष्टत्वासम्भवादिति। न चोक्तापत्तिवारणाय प्रत्यक्षोपलक्षितस्यैव प्रतिबन्धकत्वाङ्गीकारो युक्तः, एवं सति प्रत्यक्षसामग्रीविरहदशायामध्यनुमित्युत्पादानुपपत्तेः, तदानी प्रत्यक्षोपलक्षितस्य यस्य कस्यचित् सत्त्वादिति ध्येयम् । व्याख्यायाम्- कथमुपपद्यतेति । उक्तरीत्या कार्याधिकरणक्षणप्रागभावाधिकरणक्षणप्रागभावानधिकरण- . क्षगाप्रसिद्धथा पूर्ववृत्तित्वस्य कार्यविशिष्टत्वरूपताया वक्तव्यत्वादिति भावः । कारणताविशिष्टस्येति । कार्यविशिष्टत्वरूपपूर्ववृत्तित्वविशिष्टस्येत्यर्थः । पूर्ववृत्तित्वासम्भवेऽपीति । वस्तुतस्तु कार्यनियतपूर्ववृत्तित्वं न कार्यविशिष्ट वरूपम् , अपि तु कार्याव्यवहितपूर्वत्वोपलक्षितक्षणाच्छिन्नकार्याधिकरणवृत्त्यत्यन्ताभावाप्रतियोगित्वरूपमिति कार्याव्यवहितप्राक्क्षगे कारणताविशिष्टस्यापि सत्त्वं निर्वाधमेवेति ध्येयम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215