________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८
'न च' रत्नमालिका विशेषणतावच्छेदकप्रकारकनिर्णयविधया पर्वतो वह्निमानिति प्रत्यक्षसामग्रीघटकत्वादुक्तापत्तेरवारणादित्युक्तरूपेण प्रतिबन्धकत्वं सम्भवत्येवेति वाच्यम् ; तथा सति समानविषयकप्रत्यक्षसामग्रीदशायामनुमित्यापत्तेरवारणात् । पूर्वक्षणे प्रत्यक्षानुदयेन, तत्क्षणे तद्वैशिष्टयघटकप्रागभावाभावेन च तत्सामग्र्याः प्रत्यक्षविशिष्टत्वासम्भवात् ।
नूतनालोकः प्रत्यक्षविशिष्टत्वासम्भवादिति । तथा च प्रतिबन्धकतावच्छेदकविशिष्टप्रतिबन्धकसत्त्वमेव कार्यानुत्पादप्रयोजकमिति तत्काले पूर्वकाले वा तदभावात्तदानीमनुमित्युत्पत्तेरशक्यवारणतया सामग्रीप्रतिबन्धकत्वकल्पनमेव निरर्थकं स्यादिति भावः । न च द्वितीयक्षणे जायमानं कार्यमादाय प्रथमक्षणे तद्विशिष्टत्वं सम्भवत्येव, अन्यथा कार्यनियतपूर्ववृत्तित्वादिरूपकारणादिलक्षणं कथमुपपद्यतेति वाच्यम् ; यतः कारणतावच्छेदकावच्छिअस्य पूर्ववृत्तित्वमेव कार्योत्पत्तावपेक्षितम् , न तु कारणताविशिष्टस्येति तस्य पूर्ववृत्तित्वासम्भवेऽपि न क्षतिः, प्रकृते तु कार्यविशिष्टत्वरूपप्रतिबन्धकतावच्छेदकावच्छिन्नस्य पूर्वक्षणाद्यवच्छेदेन सत्त्वमेव कार्यानुत्पादप्रयोजकमिति तदसम्भवे प्रतिबन्धकसमवधानदशायामपि कार्योत्पत्तेरशक्यवारणतया निरुक्तरूपेण प्रतिबन्धकत्वमसम्भवदुक्तिकमेवेति ।
आलोकप्रकाशः - मूले--प्रत्यक्षानुदयेनेति । तथा च पूर्वक्षगस्य विशेषणानधिकरणत्वान्न प्रतिबन्धकतावच्छेदकविशिष्टाधिकरणत्वमिति भावः। प्रत्यक्षविशिष्टत्वासम्भवादिति। न चोक्तापत्तिवारणाय प्रत्यक्षोपलक्षितस्यैव प्रतिबन्धकत्वाङ्गीकारो युक्तः, एवं सति प्रत्यक्षसामग्रीविरहदशायामध्यनुमित्युत्पादानुपपत्तेः, तदानी प्रत्यक्षोपलक्षितस्य यस्य कस्यचित् सत्त्वादिति ध्येयम् । व्याख्यायाम्- कथमुपपद्यतेति । उक्तरीत्या कार्याधिकरणक्षणप्रागभावाधिकरणक्षणप्रागभावानधिकरण- . क्षगाप्रसिद्धथा पूर्ववृत्तित्वस्य कार्यविशिष्टत्वरूपताया वक्तव्यत्वादिति भावः । कारणताविशिष्टस्येति । कार्यविशिष्टत्वरूपपूर्ववृत्तित्वविशिष्टस्येत्यर्थः । पूर्ववृत्तित्वासम्भवेऽपीति । वस्तुतस्तु कार्यनियतपूर्ववृत्तित्वं न कार्यविशिष्ट वरूपम् , अपि तु कार्याव्यवहितपूर्वत्वोपलक्षितक्षणाच्छिन्नकार्याधिकरणवृत्त्यत्यन्ताभावाप्रतियोगित्वरूपमिति कार्याव्यवहितप्राक्क्षगे कारणताविशिष्टस्यापि सत्त्वं निर्वाधमेवेति ध्येयम् ।
For Private And Personal Use Only