________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता
१५७ तनैः परिहृतम् । तथा च ज्ञानवैशिष्टयावच्छिन्नमेव तादृशं प्रतिबन्धकत्वमिति वाच्यम् ; विषयतानिष्ठस्वनिरूपकनिश्चयवैशिष्टयावच्छिन्नावच्छेदकताकान्यत्व एव तद्विशेषणपर्यवसानस्य पूर्वमुक्ततया ततस्तदव्यावृत्तेः।
न चोक्तप्रतिबन्धकताव्यावृत्तये ज्ञानवैशिष्टयानवच्छिन्नत्वविशेषणं पृथगुपादीयत इति वाच्यम् ; फलविशिष्टत्वेन प्रतिबन्धकत्वे यत्रानुमितिसामग्रीकाले स्वसामग्रीवशात् समानविषयकप्रत्यक्षं जातम् । तत्रानुमितिसामग्र्या अपि प्रत्यक्षविशिष्टतया अनुमिति प्रति प्रतिबन्धकत्वव्यवहारापत्तिरित्येकविशिष्टापरत्वेनैव तत्कल्पनस्यावश्यकतया तद्विशेषणस्याकिञ्चित्करत्वात्।।
नच यत्र प्रत्यक्षपूर्वकालीनानुमितिसामग्र्यामनुमितिसामग्रीत्वादिना अनुमिति प्रतिबन्धकत्वव्यवहारस्तत्र तादृशसामग्रीत्वावच्छिन्न प्रतिबन्धकत्वविषयकत्वान्नापादयितुं शक्यः । प्रत्यक्षविशिष्टत्वेन तादृशव्यवहारस्त्विष्यत एव । अन्यथा एकविशिष्टापरत्वेन प्रतिबन्धकत्वस्वीकारेऽपि पर्वतो वह्निमानित्यनुमितिजनकपरामर्शस्य
नूतनालोकः सम्बन्धेन स्वविशिष्टक्षणवृत्तित्वरूपम् । अतः प्रागभावाधिकरणक्षणप्रागभावानधिकरणक्षणाप्रसिद्धावपि न क्षतिः । उपस्थितिद्वयेति । उपस्थितिरत्र फलव्यापारयोर्बोध्या ।
ज्ञानवैशिष्टयानवच्छिन्नत्वेति । यद्यप्युक्तविशेषणोपादाने बाधज्ञानविशिष्टत्वेन प्रतिबन्धकत्वपक्षे साध्यवत्ताबुद्धित्वावच्छिन्ननिरूपिततादृशप्रतिबन्धकत्वाप्रसिद्धिः, तथापि तत्पक्षे निरुक्तस्वविशिष्टक्षणवृत्तित्वसम्बन्धावच्छिन्नज्ञाननिष्ठावच्छेदकताकान्यत्वरूपस्यैव तस्य विवक्षणान्नाप्रसिद्धिः, तत्पक्षे समवायघटितसामानाधिकरण्यस्यैव वैशिष्ट्यरूपत्वादित्यभिप्रायः । अत एव तद्विशेषणस्याकिश्चित्करत्वादित्यनुपदोक्तिरपि सङ्गच्छते । अनुमितिसामग्या अपीति । यद्यपि प्रत्यक्षप्राक्कालीनोदासीनेष्वप्युक्तरीत्या प्रतिबन्धकत्वव्यवहारापत्तिः सम्भवति, तथाप्युत्पादक एव प्रतिबन्धकत्वव्यवहारापत्तिरित्यन्तानिष्टतासूचनाय, वैशिष्ट्यमध्ये जनकत्वनिवेशेऽप्यतिप्रसङ्गतादवस्थ्यावेदनाय वा सामग्रीपर्यन्तानुधावनम् ।
आलोकप्रकाशः मूले-पृथगिति । पूर्वोक्तस्वरूपादतिरिक्तमित्यर्थः । यथाश्रुतमपीति यावत् । व्याख्यायाम्-अतिप्रसङ्गतादवस्थ्येति । परामर्शादिरूपानुमितिसामग्या अपि विशेषणशानादिविधया कथञ्चित् प्रत्यक्षजनकत्वसम्भवादिति भावः ।
For Private And Personal Use Only