________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१५६
'न च' रत्नमालिका
न च व्यधिकरणधर्मावच्छिन्नसाध्याभावप्रमाया उक्तरीत्या प्रत्यक्षसामग्रीघटकत्वेऽपि तादृशसामय्या इन्द्रियसन्निकर्षसहित विशेष्यतावच्छेदकप्रकारकनिर्णयविशिष्टविशेषणतावच्छेदक निर्णयत्वादिनैव प्रतिबन्धकतया ज्ञानवैशिष्टयानवच्छिन्नत्वाविशेषणेनैव तद्वयावृत्तिरिति वाच्यम् ; एवमपि विनिगमनाविरहेण विशेष्यतावच्छेदकप्रकारकज्ञानविशिष्टेन्द्रियसन्निकर्षसहित विशेषणतावच्छेदकप्रकारकनिश्चयत्वेनापि प्रतिबन्धकत्वस्यावश्यकतया तदव्यावृत्तेः ।
न च सामग्र्या नैकविशिष्टापरत्वेन प्रतिबन्धकत्वं युक्तं गौरवात्, विशेषणविशेष्यभावे विनिगमकाभावेन प्रतिबन्धकताबाहुल्याच्च । नापि तत्तत्कारणसमुदायत्वेन, समुदायत्वस्य तत्तद्विषयकज्ञानविशेषविषयतारूपतया गौरवात्, तत्तद्विषकत्वानां विशेषणविशेष्यभावे विनिगमनाविरहाच्च । किन्तु फलविशिष्टत्वेन, वैशियं च स्वावयवहितपूर्ववृत्तित्वसम्बन्धेन । इत्थमेव च धातोः खण्डशतिपक्षे भिन्नविषयकानुमितिप्रतिबन्धकतावच्छेदकशरीरे उपस्थितिद्वयप्रवेशप्रयुक्तं गौरवमधुना
नूतनालोकः विशेषणतावच्छेदकप्रकारकनिर्णय जन्यतावच्छेदकः
Acharya Shri Kailassagarsuri Gyanmandir
प्रत्यक्षानुमितिमात्रवृत्तिर्जाति
विशेषः । एतत्पक्षे विशेषणज्ञानजन्यतावच्छेदकं तु विशिष्टप्रत्यक्षत्वमेवेति बाध्यम् । विनिगमनाविरहेणेति । न चेन्द्रियसन्निकर्षस्य मध्यनिवेशे स्वाश्रयेन्द्रियसंयुक्तमनःप्रतियोगिकविजातीयसंयोगादेर्द्विधा प्रवेशनीयतया गौरवान्न विनिगमनाविरहावकाश इति वाच्यम्; बहिरिन्द्रियजन्यप्रत्यक्षस्थले उक्तसम्बन्धस्यैव प्रवेशनीयत्वेऽपि मानसस्थले समवायस्यैव तथात्वेन विनिगमनाविरहसम्भवात् ।
तत्तत्कारणसमुदायत्वेनेति । तत्तत्कारणतावच्छेदकावच्छिन्नसमुदायत्वेनेत्यर्थः । तेनातीतानागतादिकारणव्यक्तिघटितसमुदायस्य क्वचिदप्यसत्त्वेऽपि न क्षतिः । स्वाव्यवहितपूर्ववृत्तित्वसम्बन्धेनेति । तच स्वप्रागभावाधिकरणक्षणप्रागभाव धिकरणत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकता कप्रतियोगिताकभेदवत्त्व - स्वप्रागभाववत्त्वोभय - आलोकप्रकाशः
विशेषितदण्डाद्यनुमितौ लौकिकप्रत्यक्षे च विशिष्टवैशिष्ट्यावगाहिताप्रसङ्गस्य तावतैव वारणसम्भवाः दिति भावः। विशिष्टप्रत्यक्षत्वमेवेति । अनुमित्यादिसाधारणधर्मस्य तत्त्वे प्रमाणाभावादिति भावः । द्विधेति । सामानाधिकरण्यरूपस्य विशेष्यतावच्छेदकप्रकारकज्ञान वैशिष्ट्य स्येन्द्रियसन्निकर्ष साहित्यस्य च घटकतयेत्यर्थः ।
For Private And Personal Use Only