________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतन लोकटीका-तस्प्रकाशटिप्पण्योपबृंहिता
जात्यनङ्गीकारे तु विशिष्टवैशिष्टयावगाहिविजातीयज्ञानत्वमेव जन्यतावच्छेदकं
बोध्यम् ।
नूतनालोकः
चैवमप्युपेक्षात्मक स्मृतेः संस्कारोत्पादवारणाय तत्तत्स्मृतिव्यक्तिभिन्नत्वस्य हेतुतावच्छेदकशरीरेऽवश्यं निवेशनीयत्वाद्गौरवं दुर्वारमेवेति वाच्यम्; अनुभवत्वेन तत्त्वे पुनः पुनः स्मरणाद् दृढदृढतरादिसंस्कारोत्पादानुपपत्तेरगत्या ज्ञानत्वेनैव हेतुत्वस्याभ्युपेयत्वात् । न च स्मरणोत्तरं न विजातीयं संस्कारान्तरमुत्पद्यते; अपि तु पूर्वतनसंस्कारे दैववशसम्पन्नझटित्युद्बोधकसमवधानरूपं दार्व्यमेव, चरमस्मृतिव्यक्तेरेव नाशकत्वेनान्तरालिकस्मृत्या संस्काराविनाशात् । ज्ञानत्वेन हेतुतापक्षे समानप्रकारकत्वेन नाशकता सम्भवेऽपि तस्याः प्रतिबन्धकत्वकल्पनाया आवश्यकतया गौरवानवकाशादिति वाच्यम्; झटिति स्मृतेर्देवाधीनत्वमुपगम्य विजातीयसंस्कारोत्पादानभ्युपगमे शास्त्राभ्यासादेरनुप योगप्रसङ्गादित्यत आह- अनुभवत्वेति । विजातीयज्ञानत्वमिति । वैजात्यन आलोकप्रकाशः
For Private And Personal Use Only
१५५
"
रूपत्वं वक्तव्यमिति सूचितम् । तत्तत्स्मृतिव्यक्तिभिन्नस्वस्येति । न चोपेक्षात्मकत्वरूपजातिविशेषावच्छिन्नभिन्नत्वनिवेशस्यानुभवत्वेन हेतुत्वपक्षेऽप्यावश्यकतया तत एवोक्त्तापत्तिवारणे तत्तत्स्मृतिव्यक्तिभिन्नत्वं नोपादेयमिति वाच्यम्; चाक्षुषत्वादिना साङ्कर्येणोपेक्षात्वस्य जातित्वासम्भवात् फला नुपधायकव्यक्तिभिन्नत्वनिवेशस्यैवावश्यकत्वादिति भावः । अनुपपत्तेरिति । अनुभवजन्यसंस्कारापेक्षया स्मरणादूदृढः, तदुत्तरक्षणस्मरणादितश्च दृढतरदृढतमाः संस्कारा जायन्त इत्यवश्यमेव स्वीकार्यम् । दाढ चोत्कर्षरूपो जातिभेदो झटिति स्मृत्युत्पादक प्रयोजकः । तथा चानुभवत्वेन हेतुत्वे तदनुपपत्तिः स्यादिति भावः । श्रभ्युपेयत्वादिति । तथा च गौरवं सह्यमेवेति भावः । न चैवं सति संस्कारस्य स्मृतिजन्यत्वावश्यकतया सिद्धान्तविरोधः शङ्कयः, तात्पर्यटीकायां प्रमाणप्रमेयेत्यादिप्रथम सूत्रेऽवयवविवेचन प्रस्तावे " स्मृतीनां स्वकार्यसंस्कारविरोधिनीनामसहभावात्" इति मिश्रोक्तेः । विस्तरस्त्वनुमितिगादाधर्या द्रष्टव्यः ।
ननु स्मरणानन्तरं स्मरणं न स्यात्, पूर्वस्मरणेन नष्टत्वादनुभवाभावेन संस्कारान्तरानुत्पादाच्चेत्यत आह- चरमस्मृतिव्यक्ते रेवेति । ननु तत्तद्वयक्तित्वेन नाशं प्रति हेतुत्वे गौरवमित्यत आह - शानस्वेन हेतुतापक्ष इति । तस्याः चरमस्मृतिव्यक्तः । प्रतिबन्धकत्वकल्पनाया इति । स्मृतिसंस्कारौ प्रतीत्यादिः । श्रावश्यकतयेति । अन्यथा चरम - स्मृत्यनन्तरमपि स्मरणापत्तेरिति भावः । प्रत्यक्षानुमितिमात्रवृत्तीति । इतरबाधाद्युपनीतरक्तत्वादि