________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१५४
'नव' रत्नमालिका
न्यत्वेनैव हेतुत्वापगमात् । वस्तुतस्तु अनुभवं प्रत्येव हेतुत्वस्य नियमतः कृति - साक्षात्कारपूर्वं विषयस्मृतेश्च कल्पनान्निश्चयत्वेन हेतुत्वेऽपि न क्षतिः । अनुभवत्वनूतनालोकः
Acharya Shri Kailassagarsuri Gyanmandir
धानविशिष्टसंस्कारत्वाभावस्यावच्छेदककोटौ प्रवेशेन तदापत्तेर्वारणीयत्वात् । विस्तरस्त्वनुमितिगादाधर्यामनुसन्धेयम् । उद्बोधकानामननुगततया तदभावसहस्रस्य निवेशनीयतया महागौरवाल्लघुरूपेण कारणतासिद्धौ तन्निर्वाहकस्मरणकल्पनागौरवस्य फलमुखत्वेनादोषत्वादाह-- वस्तुतस्त्विति । हेतुत्वस्येति । विशेषणतावच्छेदकप्रकारकधिय इत्यादिः । इच्छाद्वेषसाक्षात्कारे व्यभिचारस्योक्तरीत्या कथनिद्वारणसभवात् । कृतिसाक्षात्कारे तमुद्धरति - नियमत इति । यत्र यत्र कृतिसाक्षात्कारस्तत्र कृतिद्वितीयक्षणे विशिष्टविषय कस्मृतिं कल्पयित्वा तदनन्तरक्षण एव कृतिसाक्षात्कारोपगमादित्यर्थः । न च विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य हेतुतया विशिष्टस्मृतेः पूर्वं तत्कल्पनस्यावश्यकतया कृतेर्विनाशात् साक्षात्कारानुपपत्तिरिति वाच्यम्; अनुभवं प्रत्येव विशेषणज्ञानस्य हेतुत्वात् । न चैवमपि कृतित्वनिर्विकल्पकविषयस्मरणयोर्युगपदुत्पादासम्भवात् क्रमेण तदुभयोत्पत्तेरावश्यकतयोतानुपपत्तिर्दुर्वारैवेति वाच्यम्; विषयस्मरणस्यैव कृतित्वविषयकत्वोपगमेनोपपत्ती तन्निर्विकल्पकस्यानावश्यकत्वात् । अनादौ संसारे सर्वदैव कृतित्वविषयकसम्भवेन कृतिसाक्षात्कारजनकविषयस्मृतौ तद्भाने बाधकाभावात् । न चैवं सत्यन्यत्रापि निर्विकल्पकोच्छेदः, अपूर्वचैत्रत्वादेः प्राथमिकविशिष्टबुद्धिपूर्वं तत्स्मरणासम्भवेन तन्निर्विकल्पकस्यावश्यकत्वात् । यत्र पटादिचाक्षुषसामग्रीकाले विशेषणज्ञानेतर घटादिप्रत्यक्षसामग्री, तत्र द्वितीयक्षणे पटादिचाक्षुषोत्पत्त्या तदुत्तरं घटत्वादिविशिष्टधीनिर्वाहाय घटत्वादिनिर्विकल्पकस्यावश्यकत्वाच्च । नन्वनुभव चतुष्टयसाधारणी जातिरप्रमाणिकी, ज्ञानत्वेनैव स्मृतिसंस्कारहेतुतासम्भवात् । न च ज्ञानत्वेन हेतुत्वे स्मृतिजन्य नानासंस्कारव्यक्तिकल्पनापत्त्या गौरवमिति वाच्यम्; फलमुखत्वेन तस्यादोषत्वात् । न आलोकप्रकाशः
विषयकस्मरणोत्पत्तेरिति भावः । संस्कारस्वाभावस्येति । कालान्तरे उद्बोधका समवहितसंस्काराद्विशिष्टवैशिष्ट्या वगा हिस्मरणनिर्वाहायात्र भेदोपेक्षा । उद्बोधकसमवहिते संस्कारे च विशेषणाभावाद्विशिष्टसंस्कारत्वाभावः सुलभः । उक्तरीस्थेति । यदि चेत्यादिना अनुपदोक्तप्रकारेणेत्यर्थः । कथञ्चित् नरसिंहाकारकत्वमुपगम्य प्रसिद्धस्थलेऽपि तदावश्यकतां दर्शयति-यत्रेति । पटादिचाक्षुषोत्परयेति । एतेन तत्क्षणे स्मृतिकल्पना न सम्भवतीति पटचाक्षुषस्यैव घटत्वशे निर्विकल्पक
For Private And Personal Use Only