________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तरप्रकाशटिप्पण्योपबृंहिता राविशिष्टविषयकसंस्कारादेव विशिष्टवैशिष्टयस्मरणाञ्च विशेषणतावच्छेदकप्रकारकनिश्चयत्वेन हेतुत्वे व्यभिचार इति वाच्यम् ; इच्छादिसाधारणतत्प्रकारकसंशया
नूतनालोकः . दित्यन्वयः । रक्तदण्डमिच्छामि, रक्तदण्डं द्वेष्मीत्याकारकेच्छाद्वेषसाक्षात्कारेच्छात्वादिप्रकारकेच्छाद्वितीयक्षणोत्पन्नेच्छात्वादिनिर्विकल्पकादिच्छातृतीयक्षण एवोत्पत्स्यते, तत्पूर्वक्षण एव जनकज्ञानं नश्यतीति तत्र व्यभिचारः । यदि चेच्छात्वादिनिर्विकल्पकेऽपि विशिष्टविषयप्रकारेणेच्छादिकं भासते, तथा च तदेव निर्विकल्पकमिच्छाद्यंशे विशिष्टवैशिष्टयबोधात्मकरक्तत्वविशिष्टदण्डविषयिणीत्याद्याकारकभिच्छासाक्षात्कारपूर्व स्थास्यतीति न तत्र व्यभिचारः । अत एव नरसिंहाकारकं तन्निर्विकल्पकमिति सिद्धान्त इत्युच्यते, तदापि यत्र विशिष्टविषयकफलसाधनताज्ञानं प्रथमम् , तदुत्तरं च फलेच्छा, तदनन्तरं च विशिष्टोपायविषयिणीच्छा, तत्रेच्छात्वनिर्विकल्पकरूपे विशिष्टविषयकेच्छासाक्षात्कारे, एवं द्विष्टसाधनताज्ञानानन्तरजातफलद्वेषजन्योपायद्वेषविषयकसाक्षात्कारे च व्यभिचारो दुर्वार एव, द्विक्षणस्थायिनो ज्ञानस्य तत्पूर्वक्षण एव नाशादिति भावः । कृतिसाक्षात्काराव्यवहितपूर्व च ज्ञानस्य विनश्यदवस्थास्यापि सत्त्वं न सम्भावितमिति सूचयितुं कृतिसाक्षात्कारे व्यभिचारं दर्शयति-कृतेश्चेति । अत्रापि विशिष्टविषयोपधानेनेत्यनुषज्यते । तत्प्रकारकेति । विशेषणतावच्छेदकाप्रकारकेत्यर्थः। विशेषणज्ञानस्याप्युक्तरीत्यैव हेतुत्वमवसेयम् । न च ज्ञानत्वनिवेशेऽनुबुद्धसंस्काराद्विशिष्टवैशिष्टयावगाहिप्रत्यक्षापत्तिः, स्मृतावेवोद्वोधकस्य हेतुतया प्रत्यक्षे च तस्याकिञ्चित्करत्वादिति वाच्यम् ; अगत्योद्बोधकासमव
आलोकप्रकाशः तत्र व्यभिचार इति । इच्छादिसाक्षात्कारे व्यभिचार इत्यर्थः । व्यभिचारो दुर्वार एवेति । तथाच कचिन्नरसिंहात्मकत्वकल्पनेन व्यभिचारवारणेऽपि सर्वत्र तत्प्रकल्पनाया असम्भवाद्वयभिचारोद्धारो दुर्घट एवेत्याशयः। न सम्भावितमिति । कृत्युत्पत्तिक्षण एव नाशादिति भावः । एतद्विशेषमभिप्रेत्यैव मूले कृतेश्चेति व्यासेन लिखनमिति द्रष्टव्यम् । ननु विशिष्टबुद्धौ विशेषणज्ञानस्य हेतुतया तद्विना विषयविशिष्टकृत्यादिसाक्षात्कार एव न भवितुमर्हतीत्यगत्या तत्पूर्व विषयस्मरणमेव कल्पनीयम् । तथा च विशेषणतावच्छेदकप्रकारकज्ञानत्वावच्छिन्नस्यापि न तत्र व्यभिचार इत्यत आहविशेषणज्ञानस्यापीति । विशेषणज्ञाननाशेऽपि विशेषणविषयकाद्विशिष्टविषयकसंस्कारादेव विशिष्ट
For Private And Personal Use Only