________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२
'न च' रत्नमालिका कावच्छिन्नप्रसिद्धिस्थल एव चैत्रीयो दण्डो रक्तो न वेति विशेषरूपावच्छेदेन रक्तत्वाभावावगाहिसंशयाद्रक्तदण्डवान्न वा चैत्र इति विशिष्टसंशयोदयात्तथाविधनिश्चयस्य तादृशसंशयाविरोधित्वात् । न च ज्ञानानुपरमेऽपि विशिष्टविषयोपधानेनेच्छाद्वेषयोः कृतेश्च साक्षात्का
- नूतनालोकः संशयस्य प्रतिबन्धकत्वे विशिष्टवैशिष्टयबोधसाधारणधर्म एव तत्प्रतिवध्यतावच्छेदकोऽस्तु । तावतैव संशयानन्तरं : तद्विशिष्टचैशिष्टयबोधस्य वारणसम्भवे तत्र तत्प्रकारकज्ञानत्वेनैव हेतुत्वमुचितमिति वाच्यम् ; कतत्संशयद्वितीयक्षणे कथश्चित्तत्प्रकारकनिश्चये तद्वितीयक्षणे तद्विशिष्टवैशिष्टयधीनिर्वाहाय विशिष्टवैशिष्टयविषयताभिन्नविषयताया एव संशयप्रतिवध्यतावच्छेदकत्वं वाच्यमिति निश्चयत्वेन विशिष्टवैशिष्टयबोधाहेतुत्वे संशयोत्तरं विनापि निश्चयं विशिष्टवैशिष्टयधीप्रसङ्गात् । न च यत्र दण्डे रक्तत्वस्य संशयः, पुरुषे, च दण्डस्यानुमितिसामग्री, रक्तेतरदण्डस्य पुरुषे लौकिकबाधग्रहश्र तत्र संशयसत्त्वेऽपि केवलं विशेष्ये विशेषणमिति रीत्या रक्तदण्डवान् पुरुष इत्याद्यनुमित्युत्पत्तेः कथं तादृशबोधे संशयप्रतिबन्धकतेति वाच्यम् ; अलौकिकप्रत्यक्षं प्रत्येव तत्प्रतिबन्धकताया वक्तव्यत्वात् , लौकिकप्रत्यक्षसामथ्या विपरीतज्ञानविरोधितयैव च विशेषणधर्मिकलौकिकप्रत्यक्षात्मकसंशयस्य नापत्तिः। एवञ्च विशिष्टवैशिष्टयबोधव्यावर्तकविशेषणस्य संशयप्रतिवध्यतावच्छेदककोटावनिवेशेऽपि दण्डो रक्तो न वेति संशयबलादितरबाधाद्युपनीतरक्तत्वादिविशेषितदण्डाद्यनुमितौ रक्तत्वादि• विशिष्टवैशिष्टयावगाहिताप्रसङ्गस्य तादृशसन्देहानन्तरजातरक्तत्वादिविशेषितदण्डादिप्रकारकलौकिकप्रत्यक्षे तत्प्रसङ्गस्य च वारणाय तबुद्धौ विशेषणतावच्छेदकप्रकारकनिश्चयत्वेन हेतुताकल्पनमावश्यकमेवेति ।
ज्ञानोपरमेऽपि । इच्छादिजनकविशिष्टज्ञाननाशेऽपि । विशिष्टविषयोपधानेनेति। रक्तत्वादिविशिष्टदण्डादिरूपविषयप्रकारेणेत्यर्थः । इच्छाद्वेषयोः साक्षात्कारा
आलोकप्रकाशः ज्ञानत्वेनैव हेतुत्वमुचित मिति । तावतैव तादृशज्ञानविरहदशायां विशिष्टवैशिष्ट्यावगाहिबोधापत्तिवारणसम्भवादिति भावः । कथञ्चिदिति । लौकिकसन्निकर्षादिनेत्यर्थः । नन्वलौकिकत्वस्य प्रत्यक्षविशेषणत्वे लौकिकसन्निकर्ष बलाक्तत्वावगाहिनी विशेषणर्मिकसंशयस्यापत्तिः, तस्य संशयप्रतिवध्यस्वाभावादित्यत आह-लौकिकप्रत्यक्षेति ।
For Private And Personal Use Only