________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतना लोकटीका तथ्यकाशटिप्पण्योपबृंहिता
नव रक्तो दण्डो न वेति संशयानन्तरं रक्तदण्डवानिति निश्चयस्यैवानुत्यादोऽनुभवसिद्धः स च विशेषणसन्देहस्यौचित्यावर्जनीयत्वादुपपद्यते । निश्चयोसंशयसमध्यभावस्यापेक्षितत्वात् । रक्तदण्डवान्न वेति विशिष्टसंशयस्य तूत्पाद एवेति निश्चयत्वेन हेतुतायां साधकविरहो बाधकसत्त्वं चेति वाच्यम् ; संशयस्य विशिष्टवैशिष्ट्यबोधजनकत्वे दण्डो रक्तो न वेत्यादिसंशयाद्रक्तत्वतदभावाद्युभय विशिष्टदण्डादिवैशिष्ट्यावगाहिबोधापत्तेः । न चेष्टापत्तिः, तादृशज्ञानtree दण्डादौ धर्मिणि विरुद्धोभयप्रकारकतया रक्तत्वादिनिश्चयत्वासम्भवात, विशेष्यान्तरविशेषणतापन्नधर्मिकसंशयस्य चानुभवविरुद्धतया तत्र संशयत्वोपगमासम्भवान्च, केवलं विशेष्ये विशेषणमिति रीत्या रक्तदण्डवानिति ज्ञानेऽप्युक्तसंशयः कार्यसहवृत्तितया प्रतिबन्धकः । न च विशेषणसन्देहाधीनविशिष्टसन्देहानुपपत्तिः, दण्डत्वादिसामानाधिकरण्येन रक्तत्वनिश्चयरूपकोटितावच्छेदनूतनालोकः
१५१
बुद्वौ घटो नास्तीत्याकारिकायां प्रतियोगिनि प्रकारीभवतो घटत्वादेः प्रतियोगितावच्छेदकतयैव भानमिति तत्र घटत्वादिप्रकारकज्ञानापेक्षानियमः । दण्डो नास्ति रक्तो नास्तीत्यादिज्ञानदशायां नियमतो रक्तदण्डो नास्तीत्यादिज्ञानोत्पादविरह एवोक्तविशिष्टवैशिष्यो विशेष गतावच्छेदकप्रकारक विशेषणधीहेतुता कल्पक इति । अधिकमन्यत्रानुसन्धेयम् ।
बाधकसत्त्वं चेति । विशेषणसन्देहस्थले विशिष्टसन्देहोत्पत्त्या निश्चयत्वेन कारणतायां व्यभिचारादिति भावः । संशयस्येति । संशयसाधारणज्ञानत्वावच्छिन्नस्येत्यर्थः । नन्वेवं रक्ततदभावाद्युभयविशिष्टदण्डादिवैशिष्टया वगाहिबोधापत्तिवारणसम्भवेऽपि विशेष्ये विशेषणमिति रीत्या दण्डांशे रक्तत्वतदभावावगाहिबोधापत्तिदुर्वारैवेत्यत आहकेवलमिति । ज्ञानेऽपीति । अपिना रक्तत्वाभाववद्दण्डवानिति ज्ञानसमुच्चयः, न च तत्र आलोकप्रकाशः
For Private And Personal Use Only
मणिकारदीधितिकारोभयमतानुसारेणोक्तहेतुतास्वीकारे युक्तिमाह – दण्डो नास्तीत्यादि । रक्तत्वादिधर्मितावच्छेदकावच्छिन्न विशेष्यकरक्तत्वादिप्रकारकज्ञानत्वेन
यद्वा
कारणत्वे
युक्तिमाह - दण्डो नास्तीत्यादि । विशिष्टवैशिष्ट्यानवगाहिनोऽपि रक्तदण्डवानिति ज्ञानस्य सम्भवाद् रक्तदण्डो नास्तीति प्रतीतिपर्यन्तानुधावनम् । अन्यन्त्रेति । विशिष्टवैशिष्ट्य - बोधविचारादावित्यर्थः ।