SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५० 'नच' रस्नमालिका नूतनालोकः न तु संशयान्यत्वप्रवेशः, तथा तदंशे . सधर्मितावच्छेदककविशिष्टवैशिष्टयबोधेऽपि तत्तद्धर्मितावच्छेदकावच्छिन्नविशेष्यकतत्प्रकारकज्ञानत्वेनैव संशयसाधारणहेतुतायास्तैरङ्गीकारात्। ___ अथ किमिदं विशेषणतावच्छेदकप्रकारकधीजन्यतावच्छेदकं विशिष्टवैशिष्टयावगाहिबोधत्वम् ? न तावद्विशिष्टप्रतियोगिकवैशिष्टचावगाहिज्ञानत्वम् , व्यधिकरणसम्बन्धावगाहिविशिष्टभ्रमे व्यभिचारात् । नापि विशिष्ट प्रकारकबुद्धित्वम् , काश्चनमयवह्निमानित्यादिभ्रमप्रकारीभूतविशिष्टाप्रसिद्धचा तत्र काञ्चनमयो वह्रिरित्यादिज्ञानानपेक्षणीयतापत्तेः । नापि विशेषणान्तरप्रकारेण भासमानप्रकारकबुद्धित्वम् , रक्को दण्डः, दण्डवान् पुरुष इति समूहालम्बनस्थलेऽपि रक्तो दण्ड इति ज्ञानापेक्षाप्रसङ्गान् । नापि विशेषणान्तरप्रकारतानिरूपितविशेष्यत्वावच्छिन्नप्रकारताकबुद्धित्वम् , रक्तत्वादिप्रत्येक पदार्थोपस्थितिमूलके रक्तदण्डवानिति ज्ञाने व्यभिचारात् । तादृशाकारकबोधो रक्तो दण्ड इत्यादिविशिष्टज्ञानानन्तरमेव जायत इति तु न साम्प्रतम् , बाधग्रन्थे काश्चनमयत्वविशिष्टवरप्रसिद्धचैवोपनीतकाञ्चनमयत्वविशिष्टवह्निवैशिष्टयानुमितिः शुद्धवह्नित्वाद्यवच्छिन्नव्याप्यधूमादिमत्त्वज्ञानादिना पर्वते न सम्भवतीति कथं तद्विरोधितया व्यधिकरणकाञ्चनमयत्वावच्छिन्नवह्नयभावस्य दोषान्तरासङ्कीर्णबाधस्य हेत्वाभासतेत्याशङ्काया विशिष्टविशेषणज्ञानं विनापि विशेष्ये विशेषणं तत्रापि विशेषणान्तरमिति रीत्या तादृशानुमितिसम्भव इत्यभिधाय दीधितिकारैः समाहितत्वात् । विशिष्टव्याप्तिज्ञानं विनापि तद्बटकप्रत्येकपदार्थोपस्थितिभ्यो विशिष्टपरामर्शोत्पत्त्या अनुमितिरिनि मिश्रादिभिरभिधानात् । एकत्वविशिष्टकर्तुः पूर्वमज्ञानेऽपि क्षितिरेककर्तृकेत्यनुमितेरेभिरङ्गीकृतत्वाञ्च । अत्राहुः-विशेषणान्तररक्तत्वादिविशेष्यतापन्नदण्डादिप्रकारकं ज्ञानं द्विधा, रक्तत्वाद्यवच्छिन्नप्रतियोगिकत्वेन दण्डादिवैशिष्टयावगाहि, तद्रूपानवच्छिन्नतद्वैशिष्टयावगाहि च । तदवच्छिन्नप्रतियोगिकत्वञ्च दण्डादिप्रकारतानिरूपकसंसर्गतायामवच्छेदकतया भासते, तद्विशिष्टसंयोगादेरेव दण्डादिसंसर्गतया भानात् । दण्डादिविशेषणतापन्नरक्तत्वादेरेव वा स्वावच्छिन्नप्रतियोगिकसंयोगात्मकपरम्परासम्बन्धेन पुरुषादी प्रकारता, तादृशे विशिष्टवैशिष्टयबोधे एव विशेषणतावच्छेदकप्रकारकधीः कारणम् । न तु विशिष्टविशेषणावगाहिन्यपि रक्तत्वादिकं वैशिष्टयप्रतियोगिन्युपलक्षणतयाऽवगाहमाने द्वितीयबोधे । अत एव च प्रतियोगिविशेषिताभाव For Private And Personal Use Only
SR No.020673
Book TitleNa Cha Ratnamalika
Original Sutra AuthorN/A
AuthorSastra Sharma, Surati Narayanmani Tripathi
PublisherVaranaseya Sanskrit Vishvavidyalay
Publication Year
Total Pages215
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy