________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नूतनालोकटीका तत्प्रकाश टिप्पण्योपबृंहिता
शात्, साध्यतावच्छेदकता पर्याप्त्यनुयोगितावच्छेदकस्य इति ज्ञानविषयत्वस्य महानसीयवान् वह्निमान् वह्निमहानसीयवानित्यादिज्ञानीय प्रकारतावच्छेदकतापर्याप्त्यनुयोगितानवच्छेदक वात् ।
अथैवं सति व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकसाव्याभावप्रमाया अ समानविषयकप्रत्यक्षसामग्रीविधया स्वसमानधर्मितावच्छेद ककसाध्यवत्तानुमिति सामान्यप्रतिबन्धकत्वादव्याप्तिः, दण्डो रक्तो न वेति संशयानन्तरं रक्तदण्डवानय मित्यादिविशिष्टवैशिष्ट्या वगाहिबोधानुदयेन तादृशबोधं प्रति विशेषणतावच्छेदक प्रकारकनिर्णयत्वेन हेतुत्वस्यावश्यकतया तस्या अपि वह्नयादिज्ञानविधया तादृश सामग्री घटकत्वात् ।
Acharya Shri Kailassagarsuri Gyanmandir
आलोकप्रकाशः
१४
नूतनालोकः
"
तावतिव्याप्तेः । एकैकसंसर्गेण रूपत्वावगाहिसाध्यवत्ताज्ञानसामान्यं प्रति साध्याभाव प्रमाया अप्रतिबन्धकत्वात् न चोक्तव्यापकतावच्छेदकसम्बन्धघटकावच्छेदकता वैशि grस्य सामानाधिकरण्य- स्वावच्छेदकसम्बन्धतावच्छेदकावच्छिन्नावच्छेदकताकत्वोभय रूपत्वविवक्ष गादेकैकसम्बन्धेन, रूपत्वावगाहिनिरुक्तज्ञानव्यावृत्तिरिति वाच्यम्; एव मपि कालिकसमवायोभयसम्बन्धेन रूपत्वविशिष्टवतस्तादात्म्येन साध्यत्वे उक्तहेता वतिव्याप्तेर परिहारात् । तत्र पूर्वोक्तरीत्या साध्याभावप्रमायाः साध्यवत्ताज्ञानप्रतिबन्ध कत्वादिति परास्तम् । पर्याप्त्यवच्छेदकधर्मविवक्षणेनैव पूर्वोक्ताप्रतिबध्यज्ञानव्यावृत्तेः वह्निर्महानसीयइति ज्ञानविषयत्वस्येति । प्रकारतासम्बन्धेन तादृशज्ञानस्येत्यर्थः ।
वह्निर्महानसी
साध्यवत्ताबुद्धित्वावच्छिन्नत्वस्य निवेशेऽनुमितित्वाद्यवच्छिन्नोक्त प्रतिवध्यता मादाय दोषाप्रसक्तेराह - एवं सतीति । व्यापकत्वनिवेशे सतीत्यर्थः । निर्णयत्वेन हेतुत्वावश्यक तयेति । इदच हेतुत्वं दीधितिकारानुमतम् । न तु मणिकार मिश्राद्यनुमतम् । यथ रक्तत्वायंशे निर्धर्मितावच्छेदककतद्विशिष्टवैशिष्टद्य बोधे तत्प्रकारकज्ञानत्वेनैव हेतुता
For Private And Personal Use Only
साध्यतावच्छेकतावच्छेदकतावच्छेदकसम्बन्धप्रकारतावच्छेद
अपरिहारादिति । न च कतावच्छेदकतावच्छेदकसम्बन्धयोरैक्यविवक्षणात् प्रतीकारः शङ्कयः, तथा सति निरवच्छिन्न साध्यतावच्छेदककस्थलेऽव्याप्त्यापत्तेरिति हृदयम् ।
अङ्गीकारादिति । तथा च दण्डो रक्तो न वेति संशयानन्तरं विशिष्टवैशिष्ट्या वगाहिबोध इ एव । यदि नेष्यते, तदा वक्ष्यमाणरीत्या संशयसामग्र्याः प्रतिबन्धकत्वादेव स वारणीय इति तदाशयः