________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४८
'न च' रस्नमालिका न चैवं सति महानसीयवह्वयादिसाध्यकव्यभिचारिण्यतिव्याप्तिः, तत्र महानसीयवान् वह्निमान् , वह्निमहानसीयवानित्यादिज्ञानसाधारणसाव्यवत्तानुमितित्वव्यापकत्वस्य कामिनीजिज्ञासादिप्रतिवध्यतायामेव सत्त्वादिति वाच्यम् ; साध्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकताकप्रकारताकत्वविवक्षणादुक्तशानव्यावृत्तेर तिव्याप्त्यनवका
नूतनालोकः धर्मितावच्छेदकनिष्ठनिरवच्छिन्नावच्छेदकत्वाप्रसिद्धेरिति वाच्यम् ; किश्चिद्धर्मनिष्ठनिरवच्छिन्नावच्छेदकताकविशेष्यताकप्रमाया एव विवक्षणेनादोषात् ।।
साध्यतावच्छेदकताव्यापकावच्छेदकताकप्रकारताकत्वविवक्षणे वाहवह्निमहानसीयवानिति । अस्मिन् ज्ञाने महानसीयत्वं वह्नित्वापेक्षया धर्मितावच्छेदकं बोध्यम् । प्रकारताकत्वविवक्षणादिति । न च जातित्वादिना अयोगोलकत्वाद्यवगाहिज्ञानव्यावृत्त्यर्थं स्वसमानधर्मितावच्छेदककत्वं स्वनिरूपितधर्मितावच्छेदकतापर्याप्यनुयोगितावच्छेदकावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकताकविशेष्यताकत्वरूपमेव विवक्ष्यताम् । तथा च महानसीयवह्निमद्भिन्नं महानसीयवह्नयभाववदित्यादि प्रमाया अपि सामान्यान्तर्गततया तत्समानधर्मितावच्छेदककसाध्यवत्तानुमित्यप्रसिद्धयैव महानसीयवह्नयादिसाध्यकस्थलेऽतिव्याप्तिवारणसम्भवे विफलमेवोक्तविवक्षणमिति वाच्यम् ; एवं सति कपिसंयोगाभाववन्मूलावच्छिन्नो वृक्षो व्यधिकरणधर्मावच्छिन्नप्रतियोगिताककपिसंयोगाभाववानिति प्रमाया अपि सामान्यान्तर्गतत्वापत्त्या पर्याप्तिघटितनिरुक्तस्वसमानधर्मितावच्छेदककत्वस्य विवक्षितुमशक्यत्वेनोक्तविवक्षणस्यावश्यकत्वात् । एतेनोक्तस्थले समवायसम्बन्धेन महानसीयत्वं स्वरूपसम्बन्धेन वह्नित्वं चावगाहमानसाध्यवत्ताज्ञानस्याव्यावृत्त्यातिव्याप्तिः । न च येन येन सम्बन्येन यस्य यस्य साध्यतावच्छेदकता, तत्तत्सम्बन्धावच्छिन्नतत्तन्निष्ठावच्छेदकताकत्वय साध्यतावच्छेदकताकत्वपर्यवसितस्य साध्यप्रकारतायां विवक्षणाददोषः । अत्र व्याप्यता स्वरूपसम्बन्धावच्छिन्ना, व्यापकता तु स्वनिरूपितावच्छेदकताविशिष्टत्वसम्बन्धावच्छिन्ना । वैशिष्ट्यञ्च समानाधिकरण्य-स्वावच्छेदकसम्बन्धावच्छिन्नत्वोभयसम्बन्धेनेति वाच्यम्; एवमपि कालिकसमवायोभयसम्बन्धेन रूपत्ववतः समवायेन साध्यत्वे जलत्वादि
आलोकप्रकाशः इष्टत्वात् । निरवच्छिन्नावच्छेदकताकविशेष्यताशालिप्रमामादायैव सर्वत्र लक्षणस्य सूपणादत्वादिति ।
For Private And Personal Use Only