SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तरप्रकाशटिप्पण्योपबृंहिता वध्यतानवच्छेदकत्वात्तादृशप्रतिवध्यत्वाप्रसिद्ध या अव्याप्त्यापत्तेः । सामान्यपदस्य व्यापकत्वार्थपर्यवसायितया लाघवानवकाशाच। एवं च साध्यवत्तानुमितित्वव्यापकत्वमेव विवक्षितुमुचितमिति ।। न चैवं सति इच्छासामग्री विधया पूर्वोक्तज्ञानसामान्यप्रतिबन्धकतामादायासम्भव इति वाच्यम् : फलेच्छासाहित्येनैवेष्टसाधनत्वादिज्ञानस्य प्रतिबन्धकतया इच्छायाः पूर्व परतो वा तदुत्पादे पूर्वक्षणे उत्तरक्षणे वा तादृशक्षाने प्रतिबन्धकत्वाभावाबाधात् । न चैवं सति धूमवान् वढेरित्यादावतिव्याप्तिः, अयोगोलकं धूमाभाववदिति प्रमाप्रतिवध्यताया अयोगोलकत्वनिष्टजातित्वाद्यवच्छिन्नावच्छेदकताकविशेष्यताकज्ञानसाधारणसाम्यवत्तानुमितित्वाव्यापकत्वादिति वाच्यम् ; स्वधर्मितावच्छेदकनिष्ठनिरवच्छिन्नावच्छेदकताकसाध्यवत्तानुमितित्वव्यापकत्वस्यैव प्रतिवध्यतायां विवक्षणेनोक्तप्रमाप्रतिवध्यताया अपि तथात्वेनातिव्याप्त्यनवकाशात् । मूतनालोकः वध्यत्वाप्रसिद्धेः । न च तत्र भिन्नविषयकानुमितिसामग्रीप्रतिवध्यता तादृशी प्रसिद्धैवेति वाच्यम् ; तादृशप्रतिवध्यतायाः प्रत्यक्षमात्रनिष्ठतया तादृशप्रकारतासामान्यान्तर्गतविधेयत्वानवच्छिन्नत्वात् । तादृशप्रकारतायां लौकिकविषयताभिन्नत्वविवक्षणे त्वाह-सामान्य पदस्येति । ज्ञानत्वव्यापकत्वनिवेशेऽनाहार्यत्वादेनिवेशनीयतया गौरवादाह-अनुमितित्वव्यापकत्वमेवेति । फलेच्छासाहित्येनेति । वस्तुतस्तु प्रतिवध्यतायां विषयित्वावच्छिन्नत्वविवक्षणादेव तद्वथावृत्तिर्बोध्या। निरवच्छिन्नावच्छेदकताकेत्यादि । न चैवमसम्भवः, प्रमेयस्वादिसखण्डधर्मितावच्छेदककसाध्याभावप्रमाया अपि सामान्यान्तर्गततया स्वीय आलोकप्रकाशः स्यैव निवेशनीयता तज्ज्ञानसामान्यस्य तथात्वोपपत्तः। अतीन्द्रियसाध्यक इति । योग्यायोग्यवृत्तिसाध्यतावको दकक इत्यर्थः । रूपादिसाध्यक इति यावत् । तेन गुरुत्वादिसाध्यकस्थले साध्यतावच्छेदकावच्छिन्नलौकिकविषयताया अप्रसिद्धया पूर्वोक्तप्रकारतासामान्यावच्छिन्नप्रति वध्यत्वप्रसिद्धावपि न क्षतिः। असम्भवेनेति । रूपसामान्याभावस्यातीन्द्रियानुद्भूतरूपप्रति योगिकत्वेन प्ररक्षायोग्यचादिति भावः । मूले- उत्तरक्षण इति । इच्छोत्पत्तितृतीयक्षण इत्यर्थः । व्याख्यायाम-विवक्षणेनेति । न चैवं सावच्छिन्न वच्छेदकताकविशेष्यताकप्रमायाः कुत्रापि लक्षणघटकत्वं न स्यादिति शङ्कयम; For Private And Personal Use Only
SR No.020673
Book TitleNa Cha Ratnamalika
Original Sutra AuthorN/A
AuthorSastra Sharma, Surati Narayanmani Tripathi
PublisherVaranaseya Sanskrit Vishvavidyalay
Publication Year
Total Pages215
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy