Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay

View full book text
Previous | Next

Page 169
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५२ 'न च' रत्नमालिका कावच्छिन्नप्रसिद्धिस्थल एव चैत्रीयो दण्डो रक्तो न वेति विशेषरूपावच्छेदेन रक्तत्वाभावावगाहिसंशयाद्रक्तदण्डवान्न वा चैत्र इति विशिष्टसंशयोदयात्तथाविधनिश्चयस्य तादृशसंशयाविरोधित्वात् । न च ज्ञानानुपरमेऽपि विशिष्टविषयोपधानेनेच्छाद्वेषयोः कृतेश्च साक्षात्का - नूतनालोकः संशयस्य प्रतिबन्धकत्वे विशिष्टवैशिष्टयबोधसाधारणधर्म एव तत्प्रतिवध्यतावच्छेदकोऽस्तु । तावतैव संशयानन्तरं : तद्विशिष्टचैशिष्टयबोधस्य वारणसम्भवे तत्र तत्प्रकारकज्ञानत्वेनैव हेतुत्वमुचितमिति वाच्यम् ; कतत्संशयद्वितीयक्षणे कथश्चित्तत्प्रकारकनिश्चये तद्वितीयक्षणे तद्विशिष्टवैशिष्टयधीनिर्वाहाय विशिष्टवैशिष्टयविषयताभिन्नविषयताया एव संशयप्रतिवध्यतावच्छेदकत्वं वाच्यमिति निश्चयत्वेन विशिष्टवैशिष्टयबोधाहेतुत्वे संशयोत्तरं विनापि निश्चयं विशिष्टवैशिष्टयधीप्रसङ्गात् । न च यत्र दण्डे रक्तत्वस्य संशयः, पुरुषे, च दण्डस्यानुमितिसामग्री, रक्तेतरदण्डस्य पुरुषे लौकिकबाधग्रहश्र तत्र संशयसत्त्वेऽपि केवलं विशेष्ये विशेषणमिति रीत्या रक्तदण्डवान् पुरुष इत्याद्यनुमित्युत्पत्तेः कथं तादृशबोधे संशयप्रतिबन्धकतेति वाच्यम् ; अलौकिकप्रत्यक्षं प्रत्येव तत्प्रतिबन्धकताया वक्तव्यत्वात् , लौकिकप्रत्यक्षसामथ्या विपरीतज्ञानविरोधितयैव च विशेषणधर्मिकलौकिकप्रत्यक्षात्मकसंशयस्य नापत्तिः। एवञ्च विशिष्टवैशिष्टयबोधव्यावर्तकविशेषणस्य संशयप्रतिवध्यतावच्छेदककोटावनिवेशेऽपि दण्डो रक्तो न वेति संशयबलादितरबाधाद्युपनीतरक्तत्वादिविशेषितदण्डाद्यनुमितौ रक्तत्वादि• विशिष्टवैशिष्टयावगाहिताप्रसङ्गस्य तादृशसन्देहानन्तरजातरक्तत्वादिविशेषितदण्डादिप्रकारकलौकिकप्रत्यक्षे तत्प्रसङ्गस्य च वारणाय तबुद्धौ विशेषणतावच्छेदकप्रकारकनिश्चयत्वेन हेतुताकल्पनमावश्यकमेवेति । ज्ञानोपरमेऽपि । इच्छादिजनकविशिष्टज्ञाननाशेऽपि । विशिष्टविषयोपधानेनेति। रक्तत्वादिविशिष्टदण्डादिरूपविषयप्रकारेणेत्यर्थः । इच्छाद्वेषयोः साक्षात्कारा आलोकप्रकाशः ज्ञानत्वेनैव हेतुत्वमुचित मिति । तावतैव तादृशज्ञानविरहदशायां विशिष्टवैशिष्ट्यावगाहिबोधापत्तिवारणसम्भवादिति भावः । कथञ्चिदिति । लौकिकसन्निकर्षादिनेत्यर्थः । नन्वलौकिकत्वस्य प्रत्यक्षविशेषणत्वे लौकिकसन्निकर्ष बलाक्तत्वावगाहिनी विशेषणर्मिकसंशयस्यापत्तिः, तस्य संशयप्रतिवध्यस्वाभावादित्यत आह-लौकिकप्रत्यक्षेति । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215