Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay

View full book text
Previous | Next

Page 151
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Ŕ* 'न च' रत्नमालिका नूतनालोकः प्रकारतात्वावच्छिन्नावच्छेदकता कज्ञानत्वावच्छिन्न प्रतिवध्यता विवक्षणेऽप्यवच्छेदकावच्छेदेन तद्वत्ताबुद्धिं प्रति सामानाधिकरण्येन तदभाववत्तानिश्चयस्य प्रतिबन्धकतया तत्समानकालीनेच्छाजन्यस्य सामानाधिकरण्येन तद्वत्ताज्ञानस्य तत्त्वापत्त्यवारणात् । न च स्वीयधर्मितावच्छेदकावच्छिन्न विशेष्यता निरूपित स्वीय प्रकारतावच्छेदकावच्छिन्न प्रकारताशाल्यनुमितित्वव्यापक ज्ञानत्वावच्छिन्न प्रतिवध्यतानिरूपित प्रतिबन्धकत्वस्यैव तथात्वोपगमान्न कोऽपि दोष इति वाच्यम्; एवं सति घटो घटभिन्न इत्याद्यनुमितेरप्रसिद्धया तादृशज्ञाने आहार्यत्वस्यानाहार्यत्वस्य वा अनुपपत्तेः । न च तत्रेष्टापत्तिः; आहार्यानाहार्यान्यतरविलक्षणज्ञानस्य सिद्धान्तविरुद्धतया आहार्यत्वस्यावश्यमङ्गीकार्यत्वात् । न च प्रतिबन्धकसमवधानकालीन एव तान्त्रिकाणामाहार्यत्वव्यवहारादुक्तज्ञानस्य प्रतिबन्धका प्रसिद्धेराहार्यत्वं कथं घटत इति वाच्यम्; इच्छां विना तदभावादिकं धर्मितावच्छेद की कृत्य तद्वत्ताबुद्धेरनुदयेन तादृशबुद्धौ तदभावाद्युपस्थितित्वेन प्रतिबन्धकत्वस्यावश्यं कल्पनीयतया तादृशोपस्थितिमादाय बाधाकालीनत्वस्य तत्राप्युपपादयितुं शक्यत्वात् । स्पष्टखेदं प्रतिबन्धकताविचारे । वस्तुतस्तु अनियताहार्यस्थले प्रतिबन्धकसमवधानकालीन एवाहार्यत्वव्यवहारः । नियताहार्यस्थले तु तदसमवधानकालेऽपि तादृशव्यवहारोऽस्त्येव । तेन तादृशज्ञानं प्रति तादृशज्ञानगोचरेच्छात्वेन हेतुत्वकल्पनेनैवोपपत्तौ तदभावाद्युपस्थितित्वेन प्रतिबन्धकत्व Acharya Shri Kailassagarsuri Gyanmandir आलोकप्रकाशः त्वात् । स्वीयेत्यादि । घटवद्भूतलं पटाभाववदिति निश्चयनिरूपिताया घटवद्भूतलं पटवदिति निश्चयनिष्ठप्रतिबध्यताया भूतलत्वावच्छिन्नविशेष्यतानिरूपितधर्मितावच्छेदकता रूपघटत्वावच्छिन्नप्रकारताघटितधर्मावच्छिन्नतया तन्निरूपक ज्ञानकालीन भिन्नविषयकानुमितिसामग्रीकालीनेच्छाजन्यस्य भूतलं घटवदिति प्रत्यक्षस्याहार्यत्वापत्तिरतः प्रकारतात्वावच्छिन्नेति । तत्समानकालीनेच्छाजन्यस्येति । तत्समानकालीनभिन्नविषयकानुमितिसामग्रीकालीनेच्छाजन्यस्येत्यर्थः । स्त्रीयप्रकारतावच्छेदकावच्छिन्नप्रकार तेति । स्वीयसंसर्गतावच्छेदकता पर्याप्त्यधिकरणधर्मपर्याप्तावच्छेदकताकसंसर्गताकेत्यादिः । तेन सामानाधिकरण्येन बाधनिश्चयकालीनाया अवच्छेदका - वच्छेदेन तद्वत्ताबुद्धेर्नाहार्यत्वानुपपत्तिः । अन्यत् स्वयमूह्यम् । घटो घटभिन्न इत्यादीति । आदिना घटो घट इत्यादेः परिग्रहः । अनुपपत्तेरिति । तत्तद्धर्मावच्छिन्नविशेष्यताक तत्तद्धर्मावच्छिन्नप्रकार ताकज्ञाननिष्ठाहार्यत्वानाहार्यत्वयोस्तत्तद्धर्मावच्छिन्नविशेष्यताकतत्तद्धर्मावच्छिन्न For Private And Personal Use Only

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215