________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Ŕ*
'न च' रत्नमालिका
नूतनालोकः
प्रकारतात्वावच्छिन्नावच्छेदकता कज्ञानत्वावच्छिन्न प्रतिवध्यता विवक्षणेऽप्यवच्छेदकावच्छेदेन तद्वत्ताबुद्धिं प्रति सामानाधिकरण्येन तदभाववत्तानिश्चयस्य प्रतिबन्धकतया तत्समानकालीनेच्छाजन्यस्य सामानाधिकरण्येन तद्वत्ताज्ञानस्य तत्त्वापत्त्यवारणात् । न च स्वीयधर्मितावच्छेदकावच्छिन्न विशेष्यता निरूपित स्वीय प्रकारतावच्छेदकावच्छिन्न प्रकारताशाल्यनुमितित्वव्यापक ज्ञानत्वावच्छिन्न प्रतिवध्यतानिरूपित प्रतिबन्धकत्वस्यैव तथात्वोपगमान्न कोऽपि दोष इति वाच्यम्; एवं सति घटो घटभिन्न इत्याद्यनुमितेरप्रसिद्धया तादृशज्ञाने आहार्यत्वस्यानाहार्यत्वस्य वा अनुपपत्तेः । न च तत्रेष्टापत्तिः; आहार्यानाहार्यान्यतरविलक्षणज्ञानस्य सिद्धान्तविरुद्धतया आहार्यत्वस्यावश्यमङ्गीकार्यत्वात् । न च प्रतिबन्धकसमवधानकालीन एव तान्त्रिकाणामाहार्यत्वव्यवहारादुक्तज्ञानस्य प्रतिबन्धका प्रसिद्धेराहार्यत्वं कथं घटत इति वाच्यम्; इच्छां विना तदभावादिकं धर्मितावच्छेद की कृत्य तद्वत्ताबुद्धेरनुदयेन तादृशबुद्धौ तदभावाद्युपस्थितित्वेन प्रतिबन्धकत्वस्यावश्यं कल्पनीयतया तादृशोपस्थितिमादाय बाधाकालीनत्वस्य तत्राप्युपपादयितुं शक्यत्वात् । स्पष्टखेदं प्रतिबन्धकताविचारे । वस्तुतस्तु अनियताहार्यस्थले प्रतिबन्धकसमवधानकालीन एवाहार्यत्वव्यवहारः । नियताहार्यस्थले तु तदसमवधानकालेऽपि तादृशव्यवहारोऽस्त्येव । तेन तादृशज्ञानं प्रति तादृशज्ञानगोचरेच्छात्वेन हेतुत्वकल्पनेनैवोपपत्तौ तदभावाद्युपस्थितित्वेन प्रतिबन्धकत्व
Acharya Shri Kailassagarsuri Gyanmandir
आलोकप्रकाशः
त्वात् । स्वीयेत्यादि । घटवद्भूतलं पटाभाववदिति निश्चयनिरूपिताया घटवद्भूतलं पटवदिति निश्चयनिष्ठप्रतिबध्यताया भूतलत्वावच्छिन्नविशेष्यतानिरूपितधर्मितावच्छेदकता रूपघटत्वावच्छिन्नप्रकारताघटितधर्मावच्छिन्नतया तन्निरूपक ज्ञानकालीन भिन्नविषयकानुमितिसामग्रीकालीनेच्छाजन्यस्य भूतलं घटवदिति प्रत्यक्षस्याहार्यत्वापत्तिरतः प्रकारतात्वावच्छिन्नेति । तत्समानकालीनेच्छाजन्यस्येति । तत्समानकालीनभिन्नविषयकानुमितिसामग्रीकालीनेच्छाजन्यस्येत्यर्थः । स्त्रीयप्रकारतावच्छेदकावच्छिन्नप्रकार तेति । स्वीयसंसर्गतावच्छेदकता पर्याप्त्यधिकरणधर्मपर्याप्तावच्छेदकताकसंसर्गताकेत्यादिः । तेन सामानाधिकरण्येन बाधनिश्चयकालीनाया अवच्छेदका - वच्छेदेन तद्वत्ताबुद्धेर्नाहार्यत्वानुपपत्तिः । अन्यत् स्वयमूह्यम् । घटो घटभिन्न इत्यादीति । आदिना घटो घट इत्यादेः परिग्रहः । अनुपपत्तेरिति । तत्तद्धर्मावच्छिन्नविशेष्यताक तत्तद्धर्मावच्छिन्नप्रकार ताकज्ञाननिष्ठाहार्यत्वानाहार्यत्वयोस्तत्तद्धर्मावच्छिन्नविशेष्यताकतत्तद्धर्मावच्छिन्न
For Private And Personal Use Only