________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नूतनालोकटीका-तत्प्रकाशटिप्पण्योपहिता
नूतनालोकः
Acharya Shri Kailassagarsuri Gyanmandir
૧૨૩
क्वान्यतमत्वस्य दुर्ज्ञेयत्वात् । घटाभाववद्भूतलमित्याद्याहार्यज्ञानस्यापि निरुक्तबाधात्वापत्या तत्कालीनभिन्नविषय कानुमित्यादिसामग्रीकालीने च्छाजन्यस्य भूतलं घटाभाववदित्यादिप्रत्यक्षस्यानाहार्यत्वानुपपत्तेश्च अनवस्थाप्रसङ्गेनानाहार्यत्वस्य बाधात्वशरीरे प्रवेशयितुमशक्यत्वात् । नापि प्राह्मबुद्धिप्रतिबन्धकत्वं तत्; इच्छाकालीनतदभाववत्तानिश्चयस्येच्छानुत्तरतद्वत्ताबुद्धिं प्रति प्रतिबन्धकत्वसम्भवेऽपि भूतलं नीलघटवदिति बुद्धिनिष्ठघटत्वावच्छिन्नप्र का रताशालिबुद्धित्वावच्छिन्नप्रतिवध्यतानिरूपको यो नीलघटाभाववदिति निश्चयः, तत्कालीनभिन्नविषयकानुमितिसामग्री कालीनेच्छाजन्यस्य भूतलं घटवदिति ज्ञानस्याहार्यत्वापत्तेः । स्वीयप्रकारतावच्छेदकधर्मपर्याप्तावच्छेदकताकआलोकप्रकाशः
शरीरे प्रवेशः । न तु घटत्वपटत्वादिरूपावच्छेदकभिन्नरूपेणेति न दुर्ज्ञेयतेत्यत आह- घटाभावव भूतलमित्यादीति । अनवस्थाप्रसङ्गेनेति । अनवस्था चात्रान्यतमत्वनिष्ठानाहार्यत्वानवच्छिन्नबाधाशब्दार्थनिष्ठस्वघटकभिन्नत्वरूपा । न च तत्रेच्छाजन्यत्वाभावमात्रस्य प्रवेशान्न तत्प्रसङ्गः । एवमपि समानविषयकप्रत्यक्षसामग्रीकालीनेच्छाजन्यस्य भूतलं घटाभाववदित्यनुमित्यात्मकनिश्चयस्यानन्तरमिच्छाजन्यस्य भूतलं घटवदित्याहार्यज्ञानस्य तत्त्वापत्त्या तन्मात्रस्य तत्र प्रवेशयितुमशक्यत्वादिति भावः । न चानुमितित्वानवच्छिन्नेच्छाजन्यत्वाभावस्य विवक्षणान्नेयमापत्तिरिति वाच्यम् ; एवमपि समानविषयकप्रत्यक्षसामग्रीकालीनेच्छा जन्यस्य भूतलं घटाभाववदिति शाब्दस्यानन्तरं जायमानस्य घटाद्याहार्यज्ञानस्य तत्त्वापत्तेः । यद्यपि जन्यतायां शाब्दत्वानवच्छिन्नत्वमपि विवक्ष्यते, तथापि यत्र विषयविशेषे समानविषयकप्रत्यक्षसामग्रीदशायां प्रत्यक्षान्यज्ञानं जायतामितीच्छयैव तद्भूतलं तद्घटाभाववदिति शाब्दानुमिती, न तु शाब्दत्वादिप्रकारकेच्छया तत्र तादृशशाब्दाद्युत्तरमिच्छया जायमानस्य तद्भूतलं तद्वय्वदिति ज्ञानस्य तत्त्वापत्तिः तादृशस्थले तादृशानुमितिसाधारण परोक्षत्वावच्छिन्नं प्रत्येव तादृशेच्छाया हेतुत्वात् । न च परोक्षत्वावच्छिन्नत्वस्यापि निवेशात् प्रतीकारः शङ्कयः ; भिन्नविषयकानुमित्यादिसामग्रीकालीनेच्छाजन्यं यद्भूतलं घटाभाववदिति प्रत्यक्षम्, तदनन्तरं जायमानाहार्यस्य तत्त्वापत्तेः । आहार्यपरोक्षज्ञानानभ्युपगमेनेच्छा - जन्यतायाः प्रत्यक्षत्वावच्छिन्नतया तत्र तदनवच्छिन्नत्वविवक्षणासम्भवादिति ध्येयम् । ग्राह्यबुद्धिप्रतिबन्धकत्वमिति । ग्राह्यतावच्छेदकावच्छिन्नप्रकारताशालिबुद्धित्वघटितधर्मावच्छिन्नप्रतिबध्यता
For Private And Personal Use Only
निरूपितप्रतिबन्धकत्वमित्यर्थः । अतो नोदासीनज्ञानसाधारण्यम्, न वा भिन्नविषयकप्रत्यक्षप्रतिबन्धकानुमित्यादिसामग्रीसाधारण्यम्, सामग्रीप्रतिवध्यतायाः प्रत्यक्षत्वावच्छिन्नाया ज्ञानत्वान वच्छिन्न