________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२
'न' रत्नमालिका वारणाय विषयनिवेशोऽप्यावश्यकः । अन्यत् स्वयमूह्यमिति ।
इति द्वितीयावली ॥ .- -
नूतनालोकः बुद्धीनामगत्या विभिन्नरूपेणैव प्रतिबन्धकत्वस्य वक्तव्यतया अनुत्तरत्वनिवेशनं विफलमेवेति भावः। अन्यत् स्वयमूह्यमिति । अयं भावः-अथ किमिदमनाहार्यत्वम् ? न तावजन्यतासम्बन्धेनेच्छाविशिष्टान्यत्वम् , जन्यज्ञानसामान्यस्यैव भगवदिच्छाजन्यतया .असंग्रहापातात् । नापि जन्यतावच्छेदकविषयितासम्बन्धेन तद्विशिष्टान्यत्वम् ; समानाकारकज्ञानेषु विषयिताभेदस्याप्रामाणिकतया संग्राह्यानाहार्यासंग्रहापत्तेः, विषयित्वावच्छिन्नजन्यतासम्बन्धेन तद्विशिष्टान्यत्वं तदित्यपि न, इच्छाविरहविशिष्टानुमितिसामग्रीत्वादिना भिन्नविषयकप्रत्यक्षादिकं प्रति प्रतिबन्धकत्वकल्पनापेक्षया तादृशानुमितिसामग्रीकालीनप्रत्यक्षादाविच्छाया हेतुकत्वकल्पनमेव लाघवादुचितमिति तादृशप्रत्यक्षस्याप्याहार्यत्वप्रसङ्गात् । एतेन भगवदिच्छामादाय दोषवारणाय कार्यत्वानवच्छिन्नजन्यतानिवेशेऽपि न निस्तार इति बोध्यम् । नापि बाधाकालीनेच्छाजन्यभिन्नत्वम् , तत्र बाधात्वस्य निर्वक्तुमशक्यत्वात् । तथाहि-तद्धि न ग्राह्याभावनिश्चयत्वम् ; ग्राह्याभावव्याप्यवत्तानिश्चयासंग्रहात्। न वा ग्राह्याभावतद्वयाप्यतदवच्छेदकधर्मप्रकारकनिश्चयान्यतमत्वम् ; व्याप्यवत्तानिश्चयादीनां बहुविधानामननुगतत्वात्तत्तद्रूपेणान्यतमत्वशरीरप्रवेशावश्यकतया .अनन्तभेदघटितनिरु
आलोकप्रकाशः । जनकतया नोक्तदोष इति भावः। लाघवादिति । इच्छाया उत्तेजकत्वे कारणसमुदायात्मक सामग्रीघटककारणेषु विनिगमनाविरहेण प्रत्येकं विशेषणत्वापत्त्या प्रतिबन्धकताबाहुल्यप्रसङ्गादिति भावः । बहुविधानामिति । व्याप्यतावच्छेदकभेदेनेत्यादिः । तत्तद्रूपेण तत्तद्वयाप्यतावच्छेदकादिघटितरूपेण । न च भेदकूटावच्छिन्नभेदात्मकस्यान्यतमत्वस्य तद्वयक्तित्वेनैव निवेशान्न दोष इति वाच्यम् ; एवं सति यावत्यस्तदभाववत्त्वादिनिश्चयप्रतिवध्यव्यक्तयस्तावदन्यतमत्वव्यक्तरेव प्रतिवध्यतावच्छेदकत्वौचित्येन प्रतिवध्यतावच्छेदकशरीरेऽनाहार्यत्वादिनिवेशस्यैवानावश्यकत्वात्तत्तद्रूपेण व्याप्यवत्तानिश्चयादीनामग्रहणे तद्वयक्तित्वेनापि निरुक्तान्यतमत्वव्यक्तेर्ग्रहणासम्भवाञ्चेति भावः ।
ननु स्वनिरूपितव्यापकत्वनिष्ठप्रकारताघटितपूर्वोक्तसम्बन्धेन ग्राह्याभावत्वावच्छिन्नविशेष्यताविशिष्टनिश्चयत्वेन ग्राह्याभाववत्तानिश्चयानां स्वनिरूपितविशेष्यतावच्छेदकतावच्छेदकधर्मघटितपूर्वोक्तसम्बन्धेन ग्राह्याभावत्वावच्छिन्नप्रकारताविशिष्टनिश्चयत्वेनावच्छेदकधर्मदर्शनानामन्यतमत्व
For Private And Personal Use Only