________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतना लोकटीका-तप्रकाशटिप्पण्योपबृंहिता
वश्यकत्वात्। वह्नयभाववान् हृद इत्यनाहार्यनिश्चयस्य स्वप्रतिवध्यत्वापत्ति
१३५
नूतना लोकः
त्वज्ञानत्वयोर्विशेषणविशेष्यभावे विनिगमनाविरहः शङ्कयः अनुत्तरत्वनिवेशपक्षेऽपि तस्य तुल्यत्वात् । वस्तुतस्तु अनुत्तरत्वप्रतियोगिकोटिप्रविष्टविरोधिनिश्चयेऽनाहार्यत्वमवश्यं निवेशनीयम् । अन्यथा आहार्यविरोधिनिश्चयोत्तरं तद्वत्ताबुद्वचुत्पादात्, तत्स्थलीयसामग्रीबलादनाहार्यविरोधिनिश्चयोत्तरमपि तादृशबुद्धयापत्तेर्दुर्वारत्वात् । इत्थञ्च प्रतिवध्यदिश्यननुगतं गुरुभूतमनुत्तरत्वमपहाय तन्निवेशनमेव लाघवादुचितमिति । ननु हृदो वह्निमान् वह्नयभाववद्भिन्नो हृदः, हदे न वह्नथभावः, ह्रदवृत्त्यभावप्रतियोगी न वह्निः, हृदवृत्तिभेदप्रतियोगितानवच्छेदको वह्निरित्यादिबुद्धीनामेकरूपेण वहयभाववान् हृद इति निश्चयप्रतिवध्यत्वनिर्वाहाय विषय निवेशावश्यकत्व प्रदर्शनेन परिहरति-- वह्नयभाववान् हृद इति । विषयनिवेशोऽप्यावश्यक इति । तथा च तादृश
"
विरोधिनिश्चयानुत्तरत्वनिवेशनमेवोचितमित्याशङ्कां
For Private And Personal Use Only
आलोकप्रकाशः
प्रतिवध्यप्रतिबन्धकभावस्य वक्तव्यत्वादिति भावः । विनिगमनाविरह इति । न च महानसीयत्वविशिष्टतया वह्नित्वाद्यनुपस्थितिदशायामपि प्रतीयमानस्य महानसीयवह्नयभावादेः प्रतियोगितायां यथा धर्मिविशेषणतापन्नयोर्महानसीयत्ववह्नित्वयोर्मिंथो विशेषणविशेष्यभावानापन्नयोरेवा वच्छेदकत्वं प्रत्येकं तादृशधर्मयोरतिप्रसक्तत्वेऽपि यत्र कस्मिन्नवच्छेद्ये नानाधर्माणामवच्छेदकत्वं तत्रावच्छेदकसमुदायानतिप्रसक्त्यैवावच्छेदकता निर्वाहः, सम्बन्धादिभेदेनावच्छेदकताया भेदेऽपि नावच्छेद्यभेदः, अवच्छेद्यप्रतीतिनिरूपितावच्छेदकनिष्ठ प्रकार तानिरूपितविषयताभेदेनैव तद्भेदात्, महानसी वह्निर्नास्तीति प्रतीतौ च महानसीयत्ववह्नित्वप्रकारकसमूहालम्व नव्यावृत्त वह्नयादिविषयताया ऐक्यात् ; तथा प्रकृतेऽपि धर्मिविशेषणतापन्नयोर्मियो विशेषणविशेष्यभावानापन्नयो रेवानाहार्यत्वज्ञानत्वयोः प्रतिवध्यतावच्छेदकत्वमिति न विनिगमनाविरह इति वाच्यम्; अनाहार्यत्वसहितज्ञानत्वेन धर्मिणो युगपज्ज्ञाने एकतरस्यापरधर्मितावच्छेदकत्वभानमावश्यकम्, समूहालम्बन विलक्षण निर्धर्मिता बच्छेदककोभयमानस्याप्रामाणिकत्वादित्यनाहार्यत्वधर्मितावच्छेदकतापन्नज्ञानत्वप्रकारिकाया धर्मितावच्छेदकतापन्नानाहार्यत्व कारिकायाश्व धर्मिविषयताया भेदेनावच्छेद्यभेदावश्यकत्वात् । स्पष्यं चैतत् सत्प्रतिपक्षगादाधर्याम् | आंशिकाहार्यानम्युपगमेऽप्याह -- वस्तुस्थिति । जन्यतावच्छेदकविषयितेति । जन्यतावच्छेदकविषयिताप्रवेशे भगवदिच्छायाः कार्यत्वावच्छिन्नं प्रत्येव
ज्ञानत्व