________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३०
'नच' रत्नमालिका वनाहार्यत्वानिवेशप्रयुक्तलाघवमिति, तदपि न, ह्रदो वह्निमान् वह्नयभाववांश्चेत्यांशिकाहार्यस्यानुपपत्तेः, कार्यकाले विरोधिनिश्चयाभावासत्त्वादिति तत्र तन्निवेशा
नूतनालोकः निवेशपले पाषाणमयत्वविशिष्टपर्वतादावतिव्याप्तिवारणायानतिरिक्तवृत्तित्वरूपावच्छेदकत्वनिवेशपक्षे महाविशिष्टेऽतिव्याप्तिवारणाय च ज्ञानवैशिष्टयानवच्छिन्नत्वनिवेशः प्रतिबन्धकतायामाशङ्कितः। न च तत्र मतविशेषमाश्रित्यैव तथा निवेशशङ्का, न तु सिद्धान्तानुसारेणेति शङ्कयम् ; तथा सति पाषाणमयत्वविशिष्टपर्वतविषयकनिश्चयप्रतिवध्यतायाः पाषाणमयो न वह्निमानिति ज्ञानसहितं यत् पर्वतः पाषाणमय इति ज्ञानम् , तदुत्तरानुमितिसाधारणसमूहालम्बनानुमितित्वाव्यापकत्वेनैवातिव्याप्त्यप्रसक्त्या अनतिरिक्तवृत्तित्वरूपावच्छेदकत्वविवक्षणासङ्गतेः। एवमुक्तरीत्या महाविशिष्टेऽप्यतिव्याप्त्यसम्भवेन तद्वारकविशिष्टद्वयाघटितत्वविशेषणासङ्गतेश्चेति ।
आंशिकाहार्यस्येति । वह्नयभावांशेऽनाहार्यत्वादांशिकेति । नह्यांशिकाहार्यमेव सिद्धान्तविरुद्धमित्याशङ्कथम् ; परे तु कल्पे सामान्यनिरुक्तौ स्पष्टं तदभिधानात् । अनुपपत्तिरिति । न चानियताहार्यस्य विरोधिनिश्चयोत्तरत्वनियमेनोक्ताहार्यस्य प्रतिवध्यतावच्छेदकानाक्रान्तत्वात् कथमनुपपत्तिरिति वाच्यम् ; वह्नयभावव्याप्यजलवान् हृद इति निश्चयोत्तरत्वमात्रेणोपपन्नाहार्यभावस्यास्य वह्नयभाववद्धदविषयकविरोधिनिश्चयानुत्तरत्वानपायात् । विरोधिनिश्चयाभावासत्त्वादिति । उक्ताहार्यस्य विरोधिनिश्चयरूपत्वादिति भावः । न च प्रतिबन्धकाभावस्य पूर्वकालवृत्तितयैव हेतुत्वमस्तु, न तु कार्यकालवृत्तितयापीति वाच्यम् ; तथा सति प्रतिवध्यप्रतिबन्धकयोयोगपद्येनोत्पादापत्तेर्वारयितुमशक्यत्वात् । तन्निवेशावश्यकत्वादिति। न चैवं सत्यनाहार्य
आलोकप्रकाशः वच्छिन्नत्वनिवेशनमावश्यकमेवेति भावः । अथ साध्यवत्ताज्ञानप्रतिबन्धकत्वं नास्तीत्यस्य साध्यवत्ताज्ञान प्रतिबन्धकं यस्येति व्युत्पत्त्या साध्यवत्ताज्ञानप्रतिवध्यत्वं नास्तीत्येवार्थोऽस्तु, तथा चावच्छेदकधर्मदर्शनादेः साध्यवत्ताज्ञानप्रतिवन्धकत्वेऽपि तदप्रतिवध्यत्वान्नासम्भवप्रसक्तिरिति तन्निवेशनमनावश्यकमेवेति चेन्न; प्रतिबन्धकतायामवश्यविवक्षणीयव्यापकत्वनिर्वाहार्थ साध्यवत्ताज्ञानेऽप्रामाण्यज्ञानानास्कन्दितत्व-संशयान्यत्वयोनिवेशनीयतया गौरवात् , क्लिष्टकल्पनापत्तेश्च तादृशविवक्षाया अनुचितत्वादिति ध्येयम् । व्याख्यायाम्-वह्वयभाववद्धदविषयकविरोधिनिश्चयानु तरस्यानपायादिति । विरोधित्वस्यानुगतस्य दुर्वचत्वेन विशिष्य तत्तन्निश्चयानुत्तरत्वं निवेश्यैव
For Private And Personal Use Only