________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तस्प्रकाशटिप्पण्योपबृंहिता दिमत्त्वं वा उत्तरत्वघटकमित्यत्र विनिगमकासम्भवाच्चेत्यवच्छेदकधर्मदर्शनानां ज्ञानविशिष्टज्ञानत्वेनैव प्रतिबन्धकत्वं युक्तमिति । यच्च प्रतिबन्धकतावच्छेदककोटा
नूतनालोकः परामर्शशून्यतादशायामनुमितेरुक्तरीत्यैव वारणीयत्वात्। अत एव च धूमादालोकवान् पर्वतो वह्निमान् धूमादित्यादौ हेत्वन्तरसमुदाये हेतौ प्रतिज्ञैकदेशे चोद्देश्यानुमित्यन्यूनानतिरिक्तविषयकत्वघटितप्रतिज्ञालक्षणातिव्याप्तिः । अनतिरिक्तविषयकबोधनिष्ठान्यूनविषयकत्वावच्छिन्नजन्यतानिवेशेऽसम्भवः । तत्तत्प्रतिज्ञाद्यानुपूर्वीज्ञानजन्यतावच्छेदककोटौ तत्तदानुपूर्वीज्ञानानन्तर्यस्यावश्यं निवेशनीयतया विषयनिवेशे प्रयोजनाभावादित्याशङ्कय "अन्यूनानतिरिक्तपदं विहाय लिङ्गाविषयकत्वं वा ज्ञानविशेषणम्” मणिकृतां सङ्गच्छत इति वाच्यम् ; उक्तरीत्या सामग्रीशरीरे यत्किञ्चिदेकतद्वयक्तित्वस्य प्रवेशे यत्किञ्चिदेकप्रागभावघटितैव सामग्री स्यादिति व्यभिचारेण स्वव्याप्ययावत्तद्वयक्तित्वान्यतमव्यापकयावद्धर्मावच्छिन्नजनकसामग्र्याः स्वाश्रयता. वद्वथक्त्यन्यतमसामग्या वा सहकारित्वकल्पनावश्यकतया महागौरवाद् मणौ कल्पान्तरानुसरणम् अन्यूनविषयकत्वस्य पक्षे साध्यवैशिष्टयावगाहित्वरूपत्वे मतुपः सार्थक्यपक्षे पर्वतो वह्निमानित्यादिप्रतिज्ञायामव्याप्तिः, प्रतिज्ञादिप्रतिपाद्यतत्तद्विशिष्टार्थविषयकबोधान्यतमत्वरूपत्वे यत्रैकविध एव प्रतिज्ञार्थस्तत्रान्यतमत्वाप्रसिद्धथा अव्याप्तिः । तत्स्थलीयलक्षणस्यान्यतमत्वाघटितत्वे तु एकोक्तिभङ्ग इत्यभिप्रायेणैव, न त्वानन्तर्यस्य कार्यतावच्छेदकत्वध्रौव्येण न विषयनिवेशावश्यकतेत्यभिप्रायेण । अन्यादिपदघटितानुपूर्वीज्ञानकार्यतावच्छेदककोटावन्वयितावच्छेदकावच्छिन्नप्रतियोगित्वावगाहित्वप्रवेशावश्यकतया विषयनिवेशध्रौव्यादिति । अत्रापेक्षाबुद्वेः क्षणत्रयावस्थायित्वाज्ज्ञानोपेक्षा । वर्णादीत्यनेन वर्णत्वव्याप्यधर्मावच्छिन्नपरिग्रहः । ज्ञानविशिष्टज्ञानत्वेनैव प्रतिबन्धकत्वं युक्तमिति । अत एव सामान्यनिरुक्तौ स्वरूपसम्बन्धरूपावच्छेदकत्व
आलोकप्रकाशा विचारावसरे द्रष्टव्यः । नव्या इति । सत्प्रतिपक्षलक्षणविचारावसर इत्यादिः । सङ्गच्छत इति । उक्तसहकारित्वानुपगमे कस्याप्यानुपूर्वीज्ञानस्य विरहदशायां शाब्दबोधानुत्पादनिर्वाहाय विषयनिवेशावश्यकतयोक्तशङ्काया एवासङ्गतेरिति भावः। प्रवेशावश्यकतयेति। अन्यथा नीलो घटो घटादन्य इति प्रयोगः स्यादिति भावः । मूले-ज्ञानविशिष्टज्ञानत्वेनैव प्रतिबन्धकत्वं युक्तमिति । तथा चावच्छेदकधर्मदर्शनादिप्रतिबन्धकतामादायासम्भववारणार्थ ज्ञानवैशिष्टयान
१७
For Private And Personal Use Only