________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८
'म च' रत्नमालिका
नूतनालोकः तद्वयक्तित्वमेव तद्वयापकञ्च भवति, तादृशज्ञानद्वयान्यतरप्रतिवध्यतावच्छेदकमिति तादृशज्ञानान्यतराभावस्यापि सामग्रीघटकत्वान्न पूर्वोक्तापत्तिः। यद्वा सामान्यलक्षणाप्रकरणोक्तरीत्या तद्धर्मावच्छिन्नोत्पत्तौ तद्धर्मावच्छिन्नसामध्येव प्रयोजिका । तद्धर्मावच्छिन्नसामग्री च तद्धर्माश्रययत्किश्चित्तद्वयक्तिनिरूपितकारणतावच्छेदकनिखिलधर्मावच्छिन्नसमुदायः। इत्थञ्च ज्ञानद्वयकाले कस्या अपि तद्धर्माश्रयव्यक्तेर्निखिलकारणतावच्छेदकावच्छिन्नसमुदायात्मकसामग्या असत्त्वान्न तद्वत्ताबुद्धिप्रसङ्गः। अत एव तत्तत्परामर्शानन्तर्यस्य तत्तत्परामर्शकार्यतावच्छेदककोटौ व्यभिचारवारणायावश्यं निवेशनीयतया प्रयोजनाभावान्न तत्र विशेषणान्तरप्रवेश इति नव्याः ।
आलोकप्रकाशः समूहालम्बननिष्ठतद्वयक्तित्वमादाय जलवान् वह्नयभाववान् जलवांश्च हृद इति ज्ञानद्वयकाले न पर्वतो वह्निमानिति ज्ञानानुपपत्तिः। तद्वयक्तित्वोपादानाजलवान् वह्नयभाववान् अलवांश्च ह्रद इति ज्ञानद्वयकाले शैवालवान् वह्नयभाववान् शैवालवांश्च हृद इति शानद्वयानुत्तरपूर्वोक्तज्ञानद्वयान्यतरोत्तरतद्वत्ताबुद्धिनिष्ठतावदन्यतमत्वादिरूपयत्किञ्चिद्धर्ममादाय न तद्वत्ताबुद्धिप्रसङ्गः । यावद्धर्मेति । जन्यतावच्छेदकेत्यादिः । तेन निरुक्तयावद्धर्मान्तर्गतप्रमेयत्वाद्यवच्छिन्नजनकसामग्या अप्रसिद्धत्वेऽपि न क्षतिः, व्याप्यव्यापकत्वयोरनिवेशप्रयुक्तलाघवादाह-यद्वेति । सामान्यलक्षणोक्तरीत्येति । तत्थमभ्यधायि-"अथ तद्धर्मावच्छिन्नोत्पत्तौ तद्धर्मावच्छिन्नसामग्री, तद्वयतिरेके च तद्धर्मावच्छिन्न सामग्रीव्यतिरेकः प्रयोजकः । यत्किञ्चित्कारणतावच्छेदकावच्छिन्नाभावस्य सामग्रीविरहनिर्वाहकतयैव कार्यानुत्पादप्रयोजकत्वम् , तद्धर्मावच्छिन्नसामग्री च तद्धर्माश्रययत्किञ्चिद्वयक्तिनिरूपितकारणतावच्छेदकसकलधर्मावच्छिन्नसमुदायः" इति । अत एवेति । उक्तरीत्या सहकारित्वस्वीकारादेवेत्यर्थः । विशेषणान्तरप्रवेश इति । विषयनिवेशप्रवेश इत्यर्थः । द्वित्वादिकमादाय व्यभिचारवारणायानुमितित्वस्यावश्यं निवेशनीयत्वात् । न च कार्यनिरूपितं दैशिकव्यापकत्वं न कारणताघटकमपि तु कार्यतावच्छेदकव्यापकसामानाधिकरण्यप्रतियोगित्वम् । अत एव क्रियानधिकरणोत्तरदेशे संयोगोत्पत्तावपि तस्यास्तत्कारणत्वम् , इत्थश्च नोक्तव्यभिचारावकाश इति वाच्यम् ; प्रकृते कार्यनिरूपितदैशिकव्यापकतायाः कारणत्वाघटकत्वे कार्याधिकरणदेशत्वस्य कारणाधिकरणदेशत्वनियतत्वानिर्वाहात् । क्रियाधिकरणे उत्पाद्यमानः संयोगो यथा तदनधिकरणोत्तरदेशे जायते, तथा परामर्शाधिकरण इव तदनधिकरणेऽपि सिद्धयभावादिघटितसामग्रीबलादनुमित्युत्पादस्य दुरित्वात्तस्या अपि तद्धटकत्वावश्यकत्वात् । विस्तरस्त्वनुमितिगादाधों जातिघटितलक्षण
For Private And Personal Use Only