________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नूतनालोकटीका-तत्प्रकाशटिप्पण्यो पबृंहिता
नूतनालोकः
अपि सहकारित्वावश्यकतया तद्वत्ताप्रत्यक्षे जननीये यदनाहार्यतद्वत्ताप्रत्यक्षत्यम्, तद्वयापकविरोधिनिश्चयानुत्तरतद्वत्ताबुद्धित्वावच्छिन्नजनकसामग्र्यन्तर्गतविरोधिनिश्चयाभावस्य तत्कालेऽभावान्नोक्ता पतिरित्यतो दूषणान्तरमाह - स्ववृत्तीति । वस्तुतस्तु स्वावच्छिन्ने जननीये स्वव्याप्ययत्किञ्चिद्धर्मव्यापकधर्मावच्छिन्नजनक सामग्या एवापेक्षिततया जलवान् वह्नयभाववान् जलवांश्व हृद इति ज्ञानद्वयकाले तद्वत्ताबुद्धयापत्तिर्दुर्वारैव । तद्वत्ताबुद्धित्वव्याप्ययत्किचिद्धर्मो घटवान् वह्नद्यभाववानिति निश्चयानुत्तरत्वसहितघटवत्ता निश्चयानुत्तरतद्वत्ताबुद्धित्वम्, तद्वयापकतत्तन्निश्चयानुत्तरतद्वत्ताबुद्धित्वावच्छिन्न जनकसामध्या जलवान् वह्नयभाववानिति निश्चयाभावाघटितायास्तत्राक्षतत्वादिति ज्ञानविशिष्टज्ञानत्वेन प्रतिबन्धकत्व - मावश्यकमेव । न च स्वावच्छिन्ने जननीये स्वव्याप्ययत्किचित्तद्वयक्तित्वव्यापकयावद्धर्मावच्छिन्नजन कसा मध्याः सहकारित्वं स्वीक्रियते । इत्थन तादृशज्ञानद्वयकाले वह्निमत्ताबुद्धेः कदाप्यनुत्पत्त्या वह्निमत्ताबुद्धित्वव्याप्यं ज्ञानद्वयानुत्तरबुद्धिनिष्ठं
आलोकप्रकाशः
Acharya Shri Kailassagarsuri Gyanmandir
}
१२७
तत्रापि
जन्यत्वावच्छिन्नं प्रति प्रागभावत्वेन सामान्यतो हेतुत्वस्यावश्यकतया तत्सिद्धिरख्यातैवेति । सहकारित्वावश्यकतयेति । अन्यथा व्यभिचारवारणाय तत्तत्परामर्शाव्यवहितोत्तरत्वस्य परामर्शकार्यतावच्छेदककोटाववश्यं निवेशनीयत्वे पुनः प्रयोजनाभावात्तत्र न विषयनिवेश इति पक्षे परामर्शशून्यतादशायां पक्षतादिबलादनुमित्यापत्तेरवारणात् । परामर्शकार्यतावच्छेदकस्य पक्षतादिकार्यतावच्छेदकी भूतपर्वताद्युद्देश्यकवयादिविधेयकानुमितिं
For Private And Personal Use Only
तादृशप्रत्यक्षत्वव्याप्यं
प्रति व्याप्यत्वस्य व्यापकत्वस्य वा भावेन परामर्शविरहस्याकिञ्चित्करत्वात् । सहकारित्वे तु पर्वतो वह्निमानित्याद्यनुमितित्वव्याप्यं यत्तत्परामर्शाव्यवहितोत्तरत्वसहितं पर्वतो वह्निमानित्याद्यनुमितित्वम्, तद्व्यापकस्वकार्यतावच्छेदककत्वात् परामर्शस्यापि सामग्रीघटकत्वसम्भवेनोक्तापत्तेरनवकाशात् । इत्थश्च विरोधिनिश्चयानुत्तरबुद्धित्वमेव लाघवात् प्रतिवध्यतावच्छेदकं बोध्यम्, तत्सहकारित्वञ्च तन्निष्ठफलोपधायकत्वाभावप्रयोगासमवधानप्रतियोगित्वम् । यत्किञ्चिव्यापकधर्मावच्छिन कसामझ्या एवापेक्षिततयेति । अन्यथा पर्वतो वह्निमानित्याद्यनुमित्यौपयिक विभिन्नहेतुकसकलपरामर्शानामप्युक्तरीत्या सहकारिताप्रसङ्गेन यत्किञ्चित्परामर्शदशायां तादृशानुमित्यनुत्पादापत्तेरिति भावः । यत्किञ्चिदिति । तथा च पर्वतो वह्निमान् हृदश्च तथेति