________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'नच' रत्नमालिका मिति नासम्भव इति । तदसत्, एवं सति विरोधिनिश्चयदशायां तद्वत्ताप्रत्यक्षापत्तेवारयितुमशक्यत्वात् । उक्तप्रतिवध्यतावच्छेदकतद्वत्ताबुद्धित्व-तद्वत्ताप्रत्यक्षत्वयोरनुमित्याहार्यसाधारणयोाप्यव्यापकभावाभावेन विरोधिनिश्चयाभावस्य तद्वत्ताप्रत्यक्षसामग्रीघटकत्वासम्भवात् । स्ववृत्तिकृतिमत्त्वं स्ववृत्तीच्छावत्त्वं स्ववृत्तिवर्णा
नूतनालोकः सामान्यलक्षणाप्रकरणे द्रष्टव्य इति। नासम्भव इति । व्यधिकरणधर्मावच्छिन्नवह्नयभाववान वह्नयभाववानिति निश्चयकालीनस्य व्यधिकरणधर्मावच्छिन्नवह्नयभाववान् पर्वत इति निश्चयस्य साध्यवत्ताबुद्धिप्रतिबन्धकत्वेऽपि तत्प्रतिवध्यतायास्तादृशनिश्चयासमानकालीनतादृशनिश्चयोत्तरज्ञानसाधारणसाध्यवत्ताज्ञानत्वाव्यापकत्वादिति भावः। विरोधिनिश्चयदशायामिति । बाधादिनिश्चयकाल इत्यर्थः। व्याप्यधर्मावच्छिन्नजनकसामध्या अपि सहकारितया तद्वत्ताबुद्धथापादनासम्भवादुक्तम्प्रत्यक्षापत्तेरिति । सामग्रीत्वासम्भवादिति । सामग्रीघटकत्वासम्भवादित्यर्थः। नन्वेवमपि स्वावच्छिन्ने जननीये स्वव्याप्यव्यापकधर्मावच्छिन्नजनकसामध्या
आलोकप्रकाशः समवायेन तत्पटव्यक्ति प्रति कालिकेन समवायेन वा कारणीभूतया चरमसंयोगव्यक्त्या तत्पटव्यक्ती जननीयायां ततःपटव्यक्तिवृत्तितत्तत्तन्तुसमवेतत्वावच्छिन्नकार्यतानिरूपितकारणताश्रयीभूतानां तावतन्तुव्यक्तीनामन्यतमत्वेन रूपेण तत्संयोगव्यक्तिनिष्ठफलव्याप्यतावच्छेदककोटिप्रविष्टत्वरूपसहकारित्वरूपेणोक्तापत्तिवारणान्न प्रागभावप्रत्याशेति वाच्यम् ; तत्तन्तुसमवेतपटस्य तन्त्वन्तरेऽप्युत्पत्त्या व्यभिचारेण तत्तद्वयक्तिसमवेतसत्सामान्यं प्रति तत्तद्वयक्तेहे तुत्वस्यैवासम्भवदुक्तिकत्वात् । कथञ्चि
यभिचारवारणेऽपि तत्पटसमवेतसंयोगादेरिव तत्समवेतरूपरसादीनामपि व्यक्त्यन्तरोत्पत्तायुक्तकार्यकारणभावस्यापरिपन्थितया व्यर्थत्वात् । सहस्रतन्तुकपटव्यक्तस्तन्वन्तरेष्वनुत्पत्तौ तत्तत्तन्त्वन्यतमाभावस्य प्रयोजकत्वकल्पनावश्यकतया महागौरवाच्च । न च सामान्यसामग्रीबलात्तत्पटव्यक्तेस्तदनधिकरणतन्तुष्वापत्तिवारणाय तद्वयावृत्तस्य तत्पटाधिकरणतत्तत्तन्त्वन्यतमत्वरूपक्लप्ताभावस्यैव तत्तद्वयक्तित्वेन हेतुत्वस्य कल्पयितुमुचिततया प्रागभावस्वीकारो निरर्थक एवेति वाच्यम् , तत्पटानधिकरणतन्त्ववृत्तिघटादिसाधारणान्यतमत्वमादाय विनिगमनाविरहप्रसङ्गेनैकप्रागभावहेतुत्वस्यैवोचितत्वादिति। नन्वेवमपि द्वितन्तुकपटस्थले प्रागभावासिद्धिः, तत्र क्लप्तस्य तन्तुद्वयसंयोगस्य तत्संयोगस्यैव वा हेतुत्वकल्पनेनैव देशनियमोपपत्तेरित्याशङ्कयाहविस्तरस्त्विति । अयमाशयः-उक्तयुक्त्याऽनेकत्र प्रागभावहेतुत्वसिद्धौ यद्विशेषयोरिति न्यायेन
For Private And Personal Use Only