SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२५ नूतनालोकटीका-तरप्रकाशंटिप्पण्योपबृंहिता आलोकप्रकाशः स्यापि कल्पनीयतया गौरवात् , प्रागभावत्वेनैकहेतुत्वकल्पनस्यैवोचितत्वात् । न च तत्कायें उत्पन्नेऽपि कार्यान्तरप्रागभावबलात्तत्कार्योत्पादवारणाय तत्तत्कार्य प्रति तत्तत्कार्यप्रागभावत्वेन प्रागभावस्वीकाऽप्यनन्तकारणतानां कल्पनीयतया विपरीतमेव गौरवमिति वाच्यम् ; तादात्म्यसम्बन्धेन कार्यसामान्य प्रति प्रतियोगितासम्बन्धेन प्रागभावत्वेनैकहेतुतयैव निर्वाहात् , उत्पन्नप्रतियोगिकपागभावविनाशेनोत्पन्नकार्य तदसत्त्वात् । न चैवं सति कार्योत्पत्तौ प्राक्क्षणावच्छेदेन कार्याधिकरणे कारणसत्वस्यापेक्षिततया उत्पत्तेः पूर्वं कार्यस्यैवासत्त्वेन सर्वत्र कार्योत्पादानुपपत्तिरिति समवायिनिष्ठप्रत्यासत्या विशिष्य तद्धतुत्वकल्पनमवर्जनीयमेवेति वाच्यम् ; प्रतियोगितासम्बन्धेन नाशस्य प्रतिबन्धकत्वे प्रतियोगिनिष्ठप्रत्यासत्त्या नाशाभावस्य हेतुत्वमावश्यकमिति तत्राप्युक्तदोषतादवस्थ्येन समवायिनिष्ठप्रत्यासत्या विशिष्यैव प्रतिवध्यप्रतिबन्धकमावस्यावश्यं वक्तव्यतया प्रागभावहेतुत्वस्यैव युक्तत्वात् । एवं सहस्त्रतन्तुकपटस्थले तत्पटव्यक्तेः पटानधिकरणतन्तुषूत्पादापत्तिवारणाय समवायेन तत्पटव्यक्तिं प्रति बहूना तन्तूनां तत्संयोगानां वा तत्तद्वयक्तित्वेन कारणत्वकल्पनापेक्षया प्रागभावस्यैकस्य हेतुत्वकल्पनाया ज्यायस्त्वात्तत्सिद्धिः । न च तत्पटत्वस्य जन्यतानवच्छेदकतया आपादकाभावात् कथमियमापत्तिरिति शङ्कयम् ; कार्यमात्रवृत्तिधर्मस्य जन्यतावच्छेदकत्वनियमेन तत्पटत्वस्य कस्यचिजन्यतावच्छेदकत्वनियमात् । अन्यथा समवायेन तत्तद्वयक्तिसमवेतसत्सामान्य प्रति तादात्म्येन तत्तद्वयक्तित्वेन समवायिकारणत्वस्यावश्यकतया तेनैव निर्वाहे पटत्वादेरप्यतथात्वापत्तेः। न च प्रागभावाङ्गीकारेऽपि त्रिचतुर्यु तन्तुषु संयुक्तेषु तत्पटव्यक्तरुत्पत्तिवारणाय तद्वयक्त्यसमवायिकारणचरमसंयोगव्यक्तस्तद्वयक्तित्वेन कारणताया आवश्यकतया तेनैव पटान्तराधिकरणतन्तुषु तद्वयक्त्यापत्तिवारणसम्भव इति वाच्यम् ; समवायेन तत्पटव्यक्तिं प्रति तत्संयोगव्यक्तेः समवायेन हेतुत्वे तत्पटाधिकरणतन्त्वन्तरेषु व्यभिचारापत्त्या कालिकसम्बन्धेनैव हेतुताया वाच्यत्वेन पटान्तराधिकरणतन्तुषु तत्पटव्यक्त्यापत्तेर्दुरित्वात् । न च कार्यतावच्छेदकावच्छिन्नयावद्वयक्तिनिष्ठाभावप्रतियोगित्वस्यैव व्यभिचारपदार्थताया अन्यतरकर्मजस्थलानुरोधेन वक्तव्यतया तदभावेन चरमसंयोगव्यक्तेः समवायेन हेतुत्वं सम्भवतीति वाच्यम् ; तथापि तत्संयोगव्यक्तिरूपविशेषसामग्रीमनपेक्ष्यैव तन्तुसंयोगत्वाद्यवच्छिन्नघटितसामान्यसामग्री पूर्वसंयुक्ततन्तुषु तत्पटव्यक्तिमुत्पादयति, तथा पटान्तराधिकरणतन्तुष्वपि तां कुतो नोत्पादयेत् , तादृशसामग्र्यास्तत्राबाधादिति तत्पटव्यक्त्यनुपधायकपटान्तराधिकरणतन्तुव्यावृत्तस्य तत्पयाधिकरणयावत्तन्तुसाधारणस्य किञ्चिद्वस्तुनोऽवश्यमन्वेष्टव्यत्वात् । न च तत्तद्वयक्तिगतरूपरसादीनामन्यत्रोत्पादवारणाय समवायेन तत्तद्वयक्तिसमवेतसत्सामान्यं प्रति तादात्म्येन तत्तद्वयक्तहेतुत्वमवश्यं स्वीकरणीयम् । तथा च For Private And Personal Use Only
SR No.020673
Book TitleNa Cha Ratnamalika
Original Sutra AuthorN/A
AuthorSastra Sharma, Surati Narayanmani Tripathi
PublisherVaranaseya Sanskrit Vishvavidyalay
Publication Year
Total Pages215
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy