________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२४
'न च' रत्नमालिका
नूतनालोकः
द्वितीयन्तु तदभावपक्ष इति तदीयगादाधर्यां स्पष्टमिति । वस्तुतस्तुत्पन्नस्य पुनरुत्पादापत्तिवारणाय प्रागभावोऽवश्यमभ्युपगन्तव्यः । तदभ्युपगमे तु प्रतियोग्युत्पत्तिकाल एव तस्य विनाशेन तद्घटितसामध्यभावान्नापत्तिः । उत्पन्नस्य पुनरुत्पादश्चाप्रसिद्धत्वान्नापादयितुं शक्य इति तु न; प्रथमक्षणे प्रसिद्धस्य तदुत्पादस्यैवोत्तरक्षणे आपादनीयत्वात् । यत्र सहस्रसंयोगारब्धपटस्य दशसंयोगादिनाशानन्तरं नाशः, तत्र खण्डपटोत्पत्तिकाले तदापत्तिवारणाय विनिगमनाविरहेण दशादिसंयोगानां हेतुत्वकल्पनापेक्षया तत्प्रागभावस्यैकस्य हेतुत्वकल्पनमेवोचितमिति वा तत्सिद्धिः । विस्तरस्तु आलोकप्रकाशः
Acharya Shri Kailassagarsuri Gyanmandir
निवेशलाभाय समयपदम् । यद्वा स्ववृत्तिध्वंसप्रतियोगिकशब्दादिप्रतियोगिकयावद्ध्वं सविशिष्टत्व महाप्रलये गगनादेरप्यस्तीति तद्वारणाय कालिकसम्बन्धानुयोग्यर्थकं तत्पदम् । न च कालिकसम्बन्धेन स्ववृत्तित्वनिवेशादेव नातिप्रसङ्गः शङ्कयः; तत्र तदनिवेशात् । तन्निवेशस्फोरणायैव वा तत् । वस्तुतस्तु यदीयसमययोगे यत्समयनिष्ठध्वंसाप्रतियोगित्वम् तस्य तत्समययोग उत्पत्तिरिति क्षणघटितमप्युत्पत्तिलक्षणं सुवचमिति । प्रागभावानङ्गीकारे त्वित्यनेन सूचितमस्वरसं प्रकटयतिवस्तुतस्त्विति । आापादनीयत्वादिति । तदाकारश्च एतद्वद्याद्युत्पत्तिद्वितीयक्षण एतइट सामग्र्यव्यवहितोत्तरः स्यात् । एतद्वटोत्पादवान् स्यादिति । ननु यो यद्धर्मावच्छिन्नसामग्र्यव्यवहितोत्तरक्षणः, स तद्धर्मावच्छिन्नोत्पादवानित्येतादृशी सामग्रीव्याप्तिरेव नोपेयते, येनेयमापत्तिः, किन्तु यो यद्धर्मांवच्छिन्नसामग्र्यव्यवहितोत्तरक्षणः स तद्धर्मावच्छिन्नवानित्येव । एतादृशव्याप्तिबलाद्यद्धर्मावच्छिन्नवत्त्वे एवाग्रक्षणसम्बन्धरूपोत्पत्तिमत्त्वलाभसम्भवेनोत्पत्तिमनन्तर्भाव्य
"
"
सिद्धेऽर्थत व्याप्त्यभ्युपगमे क्षतिविरहात् । एवञ्च तद्वटोत्पत्तिद्वितीयक्षणे तद्वयवत्त्वमेवापादनीयम् तच्चेष्टमेव । अथवा उत्पत्तिमन्तर्भाव्य व्याप्त्यभ्युपगमेऽपि न प्रागभावसिद्धिः जन्यद्रव्यत्वावच्छिन्नं प्रति द्रव्यत्वेन प्रतिबन्धकत्वाभ्युपगमेनैवोक्कापत्तिवारणसम्भवात्तत्तद्वयक्तित्वावच्छिन्नं प्रति तत्तत्प्रागभावत्वेनानन्तकारणतानामनन्तप्रागभावानाञ्च कल्पनापेक्षया एतादृशप्रतिवध्यप्रतिबन्धकभावकल्पनाया एव न्याय्यत्वात् । एतत्पय्नाशानन्तरं खण्डपटोत्पत्तिकाले एतत्पटोत्पत्तिवारणाय प्रागभावहेतुत्वकल्पनमावश्यकमित्यपि न, तत्र यादृशसंयोगनाशोत्तरं पटनाशस्तत्संयोगव्यक्तेरेव तद्धेतुत्वापगमेन तदापत्तिवारणादित्यतः कल्पान्तरमाह---यत्रेति । तत्सिद्धिरिति । न च तादात्म्येन कार्यसामान्यं प्रति प्रतियो1 गितासम्बन्धेन नाशत्वेनैकप्रतिबन्धकत्वकल्पनेनैवोक्तापत्तिवारणसम्भवादतिरिक्तप्रागभावो न कल्पनीय इति वाच्यम् ; तथा सत्युत्पन्नस्य पुनरुत्पादवारणार्थे जन्यद्रव्यत्वावच्छिन्नं प्रति प्रतिबन्धकत्वान्तर
For Private And Personal Use Only