________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तस्प्रकाशटिप्पण्योपबृंहिता
नूतनालोकः प्रतियोग्य नाधारत्वविशिष्टसमयस्य वा क्षणपदार्थत्वाङ्गीकारात्तत्र च तस्याघटकत्वात् । ध्वंसप्रतियोगिनोरेकक्षणावृत्त्योरधिकरणं स्थूल एव कालः, न तु क्षण इति स्ववृत्तिध्वंसप्रतियोग्यनधिकरणत्वस्य तत्र सुघटत्वात् । न च क्षणिकपदार्थानङ्गीकारेण यादृशविशेषणविशिष्टस्य क्षणमात्रस्थायिता तादृशविशेषणविशिष्टकर्मादेरेव क्षणतया उक्तलक्षणमसम्भवग्रस्तमेव, समयमात्रस्यैव स्ववृत्तिध्वंसप्रतियोग्याधारत्वादिति वाच्यम् ; यतः प्रतियोग्यनधिकरणत्वं हि न प्रतियोग्यधिकरणभिन्नत्वम् , किन्तु प्रतियोग्यधिकरणता विरहः, प्रतियोगिविरह एव वा। तथा चोपान्त्यादिक्षणावच्छेदेन स्ववृत्तिध्वंसप्रतियोग्याधारस्यापि कर्मादेरन्यक्षणावच्छेदेन तद्विरहवत्त्वं सूपपादमेवेति । न च स्ववृत्तिध्वंसप्रतियोग्यनाधारत्वं यदि तादृशाधारताप्रतियोगिकोऽभावः, तादृशप्रतियोगिविरहो वा विवक्ष्यते, तदा स्ववृत्तिध्वंसप्रतियोगिपूर्वविनष्टपदार्थाधारताविरहवत्त्वं सर्वदैव कर्मादेरित्यतिप्रसङ्गात्तादृशाधारतात्वाद्यवच्छिन्नाभाव एव विवक्षणीयः । तथा च महाप्रलयेऽव्याप्तिः, तवृत्तिध्वंसप्रतियोग्याधारतात्वादेः स्वसमनियतध्वंसप्रतियोग्याधारतात्वापेक्षया गुरुत्वेन तदवच्छिन्नाभावाप्रसिद्धः। महाप्रलयस्य क्षणत्वाभाव इष्ट एवेति तु न युक्तम् ; तथा सति चरमध्वंसाधिकरणक्षणप्रसिद्धचा तदुत्पत्तावुक्तलक्षणाव्याप्तेरिति वाच्यम् ; गुरुधर्मस्याभावप्रतियोगितानवच्छेदकत्वे स्ववृत्तिध्वंसप्रतियोगिप्रतियोगिका यावन्तो ध्वंसास्तावद्विशिष्टत्यस्य अधिकरणतावदधिकरणताविशिष्टत्वपर्यवसितस्यैव क्षणत्वरूपत्वात् । तदुक्तं सामान्यलक्षणाशिरोमणौ-"स्ववृत्तिध्वंसप्रतियोग्यनाधारत्वं स्ववृत्तिध्वंसप्रतियोगिप्रतियोगिकयावद्ध्वंसविशिष्टसमयत्वं वा” इति । अत्र प्रथमलक्षणं गुरोरवच्छेदकत्वपक्षे ।
आलोकप्रकाशः पदार्थकल्पनाप्रयुक्तगौरवादाह-स्ववृत्तिध्वंसेति । अधिकरणतावदधिकरणताविशिष्टत्वपर्यवसितस्येति। अधिकरणतायामधिकरणतावत्त्वञ्च तादात्म्य स्वसमानाधिकरणेत्यादिभेदवत्त्वोभयसम्बन्धेन । स्वाधिकरणत्वं स्वसमानाधिकरणध्वंसप्रतियोगिप्रतियोगिकध्वंसत्वसम्बन्धेन । भेदप्रतियोगितावच्छेदकता निरूपकतासम्बन्धेन । अधिकरणतावैशिष्ट्यं स्वरूपसम्बन्धेन । तथा च नाननुगम इति भावः । स्ववृत्तिध्वंसप्रतियोगिपूर्वविनष्टप्रतियोगिकध्वंसवैशिष्ट्यस्य कर्मादौ सर्वदा सत्त्वाद्यावत्त्वं ध्वंसविशेषणम् । प्रलयेऽपि घटाद्यात्मकस्वप्रागभावध्वंसानधिकरणत्वाद्यावद्ध्वंसविशिष्टत्वमप्रसिद्धमतः स्ववृत्तिध्वंसप्रतियोगिकत्वं यावत्त्वविशेष्यतावच्छेदकतया निवेशितम् । समयत्वं वेति । विषयितालक्षगवैशिष्ट्यं द्विक्षणस्थायिनोऽपि यावद्ध्वंसविषयकज्ञानादेरिति कालिकसम्बन्धात्मकवैशिष्ट्य
For Private And Personal Use Only