________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तस्प्रकाशटिप्पण्योपधुंहिता
नूतनालोकः स्याप्रामाणिकत्वेऽपि न क्षतिरिति ध्येयम् । न च नियताहार्यत्वं स्वविरोधिधर्मधर्मितावच्छेदककस्वप्रकारकज्ञानत्वम्, अनियताहार्यत्वन्तु निरुक्तबाधाकालीनेच्छाजन्यत्वम् , तत्रानियताहार्यत्वाभावस्यैव प्रतिवध्यताद्यवच्छेदककुक्षौ प्रवेशो न तु नियताहार्यत्वाभावस्यापि, प्रयोजनाभावादिति वाच्यम् ; अवच्छेदकावच्छेदेन जलवान् ह्रद इति निश्चयकालीनस्य वह्नयभाववजलवत्कालीनह्रदो वह्निमानिति ज्ञानस्यानाहार्यत्वापत्तेः। तादृशज्ञानस्याहार्यत्वेन जलवान हृद इति निश्चयस्यानाहार्यवह्नयभाववजलवद्विषयकनिश्चयविशिष्टत्वरूपप्रतिबन्धकतावच्छेदकानाक्रान्ततया बाधापदेन ग्रहणासम्भवात् । न च ग्राह्यधर्मितावच्छेदकावच्छिन्नविशेष्यकग्राह्यतावच्छेदकधर्मावच्छिन्नप्रकारताकानुमित्यवृत्तिरूपावच्छिन्नविषयकनिश्चयस्यैव बाधापदेन विवक्षणान्न दोषः । वृत्तित्वश्च स्वावच्छिन्नविषयकानुमित्यव्यवहितोत्तरत्वसम्बन्धेन ।
आलोकप्रकाशः प्रकारताकानुमितित्वघटितत्वादिति भावः । अनाहार्यत्वानुपपत्तेरिति । न चेष्टापत्तिः, तथा सति तादृशबुद्धेर्जलवान् ह्रद इति निश्चयप्रतिबध्यत्वापत्तेः, तादृशज्ञानानन्तरं वह्नयभाववत्ताबुद्धथनापत्तेश्च । न च केवलजलवत्तानिश्चयत्वेनैव प्रतिबन्धकत्वं कल्प्यते, न तु ज्ञानविशिष्टज्ञानत्वेनेति शङ्कयम् ; गौरवात्तादृशहदे वह्निसाधने जलवद्धदस्य हेत्वाभासत्वापत्तेश्चेति भावः। अव्यवहितोत्तरत्वसम्बन्धेनेति । वह्निमान् हद इति निश्चयकालीनभिन्नविषयकानुमितिसामग्रीकालीनेच्छाजन्यस्य वह्नयभाकव्याप्यवान् हद इति ज्ञानस्यानाहार्यत्वसम्पत्तये स्वावच्छिन्ननिरूपितविषयितायाः सम्बन्धत्वोपेक्षा । अनाहार्यत्वाद्यनिवेशप्रयुक्तलाघवादुभयत्रानुमितीति । यत्तु ज्ञानविशिष्टत्वमनाहार्यत्वम् । ज्ञानवैशिष्ट्यञ्च तादात्म्य-स्वनिष्ठप्रतियोगिताकात्यन्ताभाववत्त्वोभयसम्बन्धेन । प्रतियोगिता च स्वविशिष्टज्ञानकालीनेच्छाजन्यत्वसम्बन्धावच्छिन्ना। ज्ञाने स्ववैशिष्ट्यञ्च स्वविशिष्टानुमित्यवृत्तिरूपावच्छिन्नविषयकत्व-स्वविशिष्टप्रतिवध्यतानिरूपितप्रतिबन्धकताविशिष्टत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्वोभयसम्बन्धेन । अनुमितौ स्ववैशिष्ट्यं स्वीयविशेष्यतावच्छेदकावच्छिन्नविशेष्यतानिरूपितस्वीयप्रकारतावच्छेदकावच्छिन्नप्रकारताकत्वसम्बन्धेन। वृत्तित्वञ्च स्वावच्छिन्नविषयकानुमित्यव्यवहितोत्तरत्वसम्बन्धेन । प्रतिवध्यतायां स्ववैशिष्ट्यं स्वविशिष्टानुमितिनिष्ठभेदप्रतियोगितावच्छेदकत्वसम्बन्धावच्छिन्नखनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसम्बन्धेन । अनुमितौ स्ववैशिष्ट्यं पूर्ववत् भेदप्रतियोगितावच्छेदकतास्वरूपसम्बन्धेन। प्रतिबन्धकताविशिष्टत्वं स्वावच्छेदकीभूताभावप्रतियोग्युपहितत्वसम्बन्धेन । इत्थञ्च द्वितीयसम्बन्धमहिम्ना आहार्याद्यात्मक
For Private And Personal Use Only