________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'नच' रत्नमालिका
नूतनालोकः इत्थश्च न प्रतिवध्यतावच्छेदकस्य प्रतिवध्यताघटितत्वेनान्योन्याश्रयोऽपीति वाच्यम् ; एवं सति वह्नयभाववान हृद इत्याहार्यस्यापि बाधात्वापत्त्या तत्समानकालीनभिन्नविषयकानुमितिसामग्रीकालीनेच्छाजन्यस्य हृदो वह्निमानिति ज्ञानस्याहार्यत्वापत्तेरिति दिक्। केचित्तु ज्ञानविशिष्टप्रत्यक्षत्वावच्छिन्नजन्यतासम्बन्धेनेच्छाविशिष्टा - न्यत्वरूपमनुगतमनाहार्यत्वं सुवचम्, बाधनिश्चयोत्तरप्रत्यक्षत्वस्येच्छाजन्यतावच्छेदकत्वात् । ज्ञानवैशिष्टयश्च जन्यतायां स्वोत्तरत्वसम्बन्धावच्छिन्नस्वनिष्टावच्छेदकताकत्वसम्बन्धेन। इत्थश्च भिन्नविषयकानुमितिसामग्रीकालीनेच्छाजन्यप्रत्यक्षस्य नानाहार्यत्वानुपपत्तिः, तत्रेच्छाजन्यतायाः सामग्र्युत्तरप्रत्यक्षत्वावच्छिन्नतया ज्ञानानवच्छिन्नत्वात् । यदि चानुमितिसामयाः पक्षतादिविशिष्टपरामर्शादिरूपतयाऽनुमितिसामग्युत्तरप्रत्यक्षत्वावच्छिन्नजन्यताज्ञानावच्छिन्नैवेत्युच्यते, तदा वैशिष्टयघटकज्ञाननिष्ठावच्छेदकताया इच्छाघटितधर्मानवच्छिन्नत्वेन विशेषणान्न दोषः, उक्तप्रत्यक्षत्वावच्छिन्नेच्छाजन्यतावच्छेदकतायाः सिषाधयिषाविरहविशिष्टसिद्धयभावरूपपक्षता.
. आलोकप्रकाशः : बाधादिनिश्चयमादाय नानुपपत्तिः। न च वह्नयभावव्याप्यत्वांशे आहार्यात्मकः संशयात्मको वा यो वह्नयभाववत्तानिश्चयः, तत्कालीनेच्छाजन्यस्य वह्निमत्ताज्ञानस्यानाहार्यत्वानुपपत्तिरिति वाच्यम् ; ज्ञाने स्ववैशिष्ट्यघटकपूर्वोक्तद्वितीयसम्बन्धस्थाने स्वविशिष्टप्रतिवध्यतानिरूपितप्रतिबन्धकताविशिष्टत्वं विवक्ष्यते । प्रतिबन्धकतावैशिष्ट्यञ्च-स्वावच्छेदकीभूतभेदप्रतियोगितासम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्व-स्वावच्छेदकीभूतविषयितावत्वोभयसम्बन्धेन । प्रतिवध्यतायां स्ववैशिष्ट्यं च पूर्वोक्तमेव । न चैवमप्येकरूपेण प्रतिबन्धकतापक्षे वयभाववजलवद्वृत्तिजलवत्त्वांशे आहार्यायात्मकस्य . वह्नयभाववच्छेवालववृत्तिशैवालवत्तानिश्चयस्योक्तसम्बन्धेन प्रतिबन्धकताविशिष्टत्वासम्भवेन तत्कालीनेच्छाजन्यवह्निमत्ताबुद्धेरनाहार्यत्वापत्तिः। जलवान् वह्नयभाववान् जलवांश्च ह्रद इत्यादिविशकलितज्ञानस्य स्वविशिष्टानुमित्यवृत्तिरूपावच्छिन्नविषयिताकत्वाभावेन तत्कालीनेच्छाजन्यस्यानाहार्यत्वापत्तिश्चेति वाच्यम् , तद्धर्मावच्छिन्नविशेष्यकतद्धर्मावच्छिन्नाभावप्रकारकनिश्चयप्रतिवध्यतावच्छेदकमनाहार्यत्वं तद्धर्मावच्छिन्नविशेष्यकतद्धर्मावच्छिन्नप्रकारकानुमितित्वव्यापकप्रतिवध्यतानिरूपितप्रतिबन्धकत्वाश्रयतद्धर्मावच्छिन्नविशेष्यकतधर्मावच्छिन्नाभावप्रकारकनिश्चयकालीनेच्छाजन्यत्वाभावरूपमिति- रीत्या. विशिष्यैव निर्वाच्यमित्यदोषादिति । तदसत् । प्रतिवध्यतावच्छेदकीभूतधर्मस्य प्रतिवध्यताघटितत्वेनान्योन्याश्रयप्रसङ्गात् । प्रत्यक्षत्वा
For Private And Personal Use Only