________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नूतनालोकटीका तत्प्रकाशटिप्पण्योपबृंहिता
नूतनालोकः
घटितसामग्रीत्वावच्छिन्नतया इच्छाघटितधर्मानवच्छिन्नत्वाभावात् । न चैवमपि व्यतिरेकिणि साध्यज्ञानसत्त्वे इतरभेदरूपसाध्यप्रकारिकैवानुमितिः, न तु तद्विशेष्यिकेति साध्यविशेष्यकानुमितौ साध्यतावच्छेदकप्रकारकज्ञानसामान्यमेव प्रतिबन्धकम् । तत्र न पक्षताशरीरे सिषाधयिषाविरहस्य निश्चयत्वस्य वा निवेशो गौरवात् । अत एव " तादृशानुमितिं प्रति सिद्धिमात्र विरोधि, साध्यप्रसिद्धिरेव वा" इति पक्षता शिरोमणौ साध्यप्रसिद्धिमात्रस्य प्रतिबन्धकत्वमभिहितम् । तथा चाप्रसिद्धसाध्यकस्थलीयानुमितिसामाया इच्छाविरहाघटितत्वेन तादृशसामग्युत्तर प्रत्यक्षत्वावच्छिन्नेच्छा जन्यतानिरूपित परामर्शनिष्ठावच्छेदकता इच्छाघटितधर्मानवच्छिन्नैवेति वाच्यम्; यतः साध्यप्रसिद्धिप्रतिबन्धकतायामपि साध्यविशेष्य कानुमितित्वप्रकारकेच्छाया उत्तेजकत्वमावश्यकम् । अन्यथा पक्षविशेष्यकसिद्धिदशायां तादृशेच्छासत्त्वे साध्यविशेष्यकानुमित्यपलापापत्तेः । सिद्धसमवहितसाध्य प्रसिद्धिदशायां साध्यविशेषणकानुमितेः सम्भवेन तत एवोद्देश्यसंशयनिवृत्त्यादिसम्भवे साध्य विशेष्यकानुमित्यनुपगमोऽपि न क्षतिकर इत्यभिप्रेत्यैव साध्यप्रसिद्धिमात्रस्य तद्विरोधित्वमुररीकृतं दीधितिकृता । उक्तसिद्धीच्छयोः सत्ये च साध्यविशेषणका नुमित्युत्पादासम्भवेनोद्देश्यसंशयादिनिवृत्यर्थं साध्यविशेष्यकानुमित्युत्पादस्यावश्यकतया तदपलापानौचित्यात् । स्पष्टुं चैतत् पक्षतागादाधर्याम् । तथा चाप्रसिद्धसाध्यकस्थलीयानुमितिसामथ्र्यपि सिषाधयिषाघटितैवेति । न चैवमपि यादृशपक्षकयादृशसाध्यकस्थले सिद्धिकाले परामर्शादिसत्त्वे अनुमित्साया असमवधानम्, तादृशपक्षसाध्यकस्थले केवलसिद्धभाव एव पक्षता । न तु तत्र सिषाधयिषाविरह वैशिष्ट्यनिवेशः, प्रयोजनाभावात् । तथा च शिरोमणिः - " यत्र सिद्धयनन्तरं कदाप्यनुमितिर्न जाता, तत्र आलोकप्रकाशः
१८
Acharya Shri Kailassagarsuri Gyanmandir
वच्छिन्नेति । इदञ्च स्वरूपकीर्तनमात्रम्, तन्निवेशे प्रयोजनाभावात् । इच्छाघटितधर्मानवच्छिन्नैवेति । तथा च साध्यविशेष्यकानुमितिसामग्रीकाली नेच्छाजन्यभिन्नविषयकप्रत्यक्षस्यानाहार्यत्वानुपपत्तिरिति भावः । पक्षविशेष्यकसिद्धेः सत्त्वे पक्षविशेष्यकानुमित्युपगमेनैवोपपत्तौ साध्यविशेष्यकानुमितेरनुपगमो न क्षतिकर इत्यभिप्रायेण पक्षविशेष्यकसिद्धिदशायामिति । सिद्धसमवहितेति । पक्षविशेष्यकेत्यादिः । प्रयोजनाभावादिति । सिद्धिकाली नानुमित्यनुरोधेनैव विशिष्टसिद्धयभावस्य पक्षतात्वं स्वीकरणीयमित्युक्तस्थलेऽनुमिते रेवाभावे किमर्थं
For Private And Personal Use Only
१३७