________________
Shri Mahavir Jain Aradhana Kendra
१३८
www.kobatirth.org
'न च' रत्नमालिका
नूतनालोकः
सिद्धयभावमात्रं कारणम्, न तु तत्रेच्छानिवेशोऽपि, गौरवात् प्रयोजनाभावाच " इति । इत्थञ्च तादृशपक्षसाध्य कानुमितिसामग्री नेच्छाविरहघटितेति वाच्यम् । समवायसम्बन्धावच्छिन्न प्रतियोगिता कज्ञानाभावघटितधर्मानवच्छिन्नत्वेन वैशिष्ट्यघटकावच्छेदकता या विशेषणीयतयोक्तापत्तेरनवकाशात्, अनुमितिसामध्याः समवायसम्बन्धावच्छिन्नप्रतियोगिता कसिद्धयभावादिघटितत्वात् । न चैवं सति विरोधिनिश्चयनिष्ठेच्छा जन्यतावच्छेदकता या अव्याप्यवृत्तित्वज्ञानविर हवैशिष्ट्या
Acharya Shri Kailassagarsuri Gyanmandir
वच्छिन्नतया समवायसम्बन्धावच्छिन्नप्रतियोगिताकज्ञानाभावघटितधर्मानवच्छिन्नज्ञाननिष्ठावच्छेदकता केच्छाजन्यत्वाप्रसिद्धिरिति वाच्यम्; व्याप्यवृत्तित्वावगाहित्वेन प्रतिबन्धकत्वाभ्युपगमेन तत्प्रसिद्धेः । उत्तेजकतापक्षेऽप्यव्याप्यवृत्तित्वज्ञानविरहवैशिष्ट्यवच्छिन्नत्वेनैव
तया
वैशिष्ट्यघटकावच्छेदकताया विशेषणीय
अप्रसिद्ध नवकाशादिति । वस्तुतः स्वनिष्ठावच्छेदकतायाः स्वकार्यकारणानवच्छिन्नत्वेन विवक्षणादनुमितिसामग्रीमादाय न दोषः । परामर्शनिष्ठावच्छेदकतायाः पक्षतादिरूपतत्कार्य कारणावच्छिन्नत्वादिति वदन्ति । तन्न । एवं सति वह्नयभाववान् ह्रद इति निश्चय प्रतिवध्यस्य जलवत्त्वांशे आहार्यात्मकस्य जलवान् हृदो वह्निमांश्चेति ज्ञानस्य वह्नचंशेऽनाहार्यत्वानुपपत्तेरिति चेदत्रोच्यते - आंशिकाहार्यानभ्युपगमान्नोक्तदोषावकाशः । यद्वा अनुगताना
आलोकप्रकाशः
तन्निवेश इति भावः । समवायसम्बन्धावच्छिन्नेति । तेन विरोधिज्ञानादिनिष्ठावच्छेदकताया विषयतासम्बन्धावच्छिन्नप्रतियोगिताकाप्रामाण्यज्ञानाभावघटितधर्मावच्छिन्नत्वेऽपि न क्षतिः । सिद्ध्यभावादीति । आदिपदाद्विरोधिनिश्चयाभावपरिग्रहः । तत्प्रसिद्धेरिति । व्याप्यवृत्तित्वावगाहित्वेन प्रतिबन्धकत्वपक्षे व्याप्यवृत्तित्वावगाहिविरोधिनिश्चयस्यैव जन्यतावच्छेदकत्वादिति भावः । अव्याप्यवृतित्वज्ञान विरह वैशिष्टया व च्छिन्न स्वेनैवेति । संशयनिश्चयसाधारणान्याध्यवृत्तित्वज्ञानत्वावच्छिन्नप्रतियोगिताकाभाववैशिष्टयावच्छिन्नत्वेनैवेत्यर्थः । तेन घटो व्याप्यवृत्तित्वाभाववानित्यनुमितिसामय्या बाधाभावविधया व्याप्यवृत्तित्वप्रकारकनिश्चयाभावघटितत्वेऽपि न क्षतिः, तत्राव्याप्यवृत्तित्वज्ञानत्वावच्छिन्नप्रतियोगिताका भावस्याप्रवेशात् । एवकारेण पूर्वोक्ताभावघटितधर्मानवच्छिन्नत्वव्यवच्छेदः । अनाहार्यत्वानुपपत्तेरिति । जलाभाववान्, हृद इति
For Private And Personal Use Only