________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तत्प्रकाशटिप्पण्योपहिता
नूतनालोकः हार्यत्वस्य निर्वक्तुमशक्यत्वेऽप्यव्यवहितोत्तरत्वसम्बन्धावच्छिन्नतत्तद्धर्मावच्छिन्नविशेष्यकतत्तद्धर्मावच्छिन्नाभावादिप्रकारकनिश्चयत्वावच्छिन्नावच्छेदकताकेच्छाजन्यतावद्भिन्नत्वरूपस्य विरोधितावच्छेदकरूपभेदभिन्नस्याननुगतस्यैव तस्य तत्तन्निश्चयप्रतिवध्यतावच्छेदकत्वमगत्या वक्तव्यम् । अथवा तद्धर्मावच्छिन्नविशेष्यकतद्धर्मावच्छिन्नप्रकारकानाहार्यत्वं नाम तद्धर्मावच्छिन्नविशेष्यकतद्वर्मावच्छिन्नप्रकारकत्वावच्छिन्नज्ञाननिष्ठावच्छेदकताकजन्यतासम्बन्धेनेच्छाविशिष्टान्यत्वम् । इत्थं चोक्तांशिकाहार्यस्य वह्नित्वावच्छिन्नप्रकारकत्वानवच्छिन्नतया न वह्नयभाववत्तानिश्चयप्रतिवध्यत्वानुपपत्तिरिति ।।
इति द्वितीयालोकः ॥
आलोकप्रकाशः
विरोधिनिश्चयनिष्ठावच्छेदकताकजन्यताया निरुक्तांशिकाहार्ये सत्त्वादिति भावः । तत्तगुर्मावच्छिन्नाभावादीति । आदिपदेन तत्तद्धर्मावच्छिन्नाभावव्याप्यावच्छेदकधर्मादेः परिग्रहः । निश्चयत्वावच्छिन्नेति । तन्निवेशाभूतले घटाभाववत्त्वांशे आहार्यात्मकेन वह्निव्यायधूमवान् पर्वत इति परामर्शन घटिता या सामग्री तदुत्तरं जायमानस्य भूतलं घटवदित्यनाहार्यप्रत्यक्षस्य भिन्नविषयकानुमितिसामग्रीत्वावच्छिन्ना या भूतलं घटाभाववदिति निश्चयात्मकपरामर्शनिष्ठावच्छेदकता, तन्निरूपकेच्छाजन्यत्वसत्त्वेऽपि न क्षतिः ॥
इति द्वितीयालोकप्रकाशः ॥
For Private And Personal Use Only