Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay

View full book text
Previous | Next

Page 109
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५३ 'न च' रत्नमालिat न च स्वनिरूपितप्रकारताविशिष्टप्रकारताशालिबुद्धिं प्रति येन सम्बन्धेनाभावप्रकारकनिश्चयस्य विरोधिता, तत्सम्बन्धावच्छिन्नवृत्तित्वविवक्षया न कोऽपि दोषः । प्रकारतावैशिष्ट्यं सामानाधिकरण्य-स्वसजातीयत्वोभयसम्बन्धेन । साजात्यं स्वावच्छेदकावच्छिन्नत्व- निरवच्छिन्नत्वान्यतर रूपेणेति वाच्यम्। एवमपि घटत्वविशेष्यक घटभेदप्रकारकस्येदं घटभिन्नमित्यादिज्ञानस्य संग्रहापत्तेः । तत्र तादात्म्यसम्बन्धस्यापि तथात्वात्तेन सम्बन्धेन घटत्वात्मकघटभेदाभावस्य स्वाधिकरणे नूतनालोकः कादावपि सत्त्वात् । स्वरूपसम्बन्वेन तद्विवक्षणे वह्नयभाववान् पर्वत इत्यादि भ्रमाव्यावृत्तेः कालिकसम्बन्धेनाकाशाभाववान् प्रमेयत्वादित्यादौ कालिकसम्बन्धावच्छिन्नप्रतियोगिता का काशाभावाभाववानात्मा इत्यादिप्रमाया असंग्रहापत्तेश्च । साध्यतावच्छेदकसम्बन्धेन तद्विवक्षया नेह निर्वाहः शङ्कयः, पर्वतनिष्ठो वह्नद्यभाव इत्यादिभ्रमाव्यावृत्तेः । असंग्रहापत्तेरिति । घटत्वत्वेन घटत्वविषयकज्ञानधर्मिकं यद् विषयतासम्बन्धेन घटत्वत्वविशिष्टप्रकारकज्ञानम्, तदसंग्रहस्याप्युपलक्षणमेतत् । नन्वत्र यत्सम्बन्धावच्छिन्न यन्निष्ठप्रकारताशालिनिश्चयत्वावच्छिन्नं तादृशप्रतिबन्धकत्वम्, तत्सम्बन्धावच्छिन्न तन्निष्ठस्वाधिकरणवृत्तित्वविवक्षणान्नायमसंग्रहः, घटभेदाभावनिष्ठतादृशप्रतिबन्धकतावच्छेदकप्रकारतायां समवायस्यैवावच्छेदकत्वात् । Acharya Shri Kailassagarsuri Gyanmandir आलोकप्रकाशः नात्मेति प्रमाया असंग्रहापत्तिरतः प्रकारतावच्छेदकसम्बन्धनिवेशः । व्याख्यायाम् — वह्नयभाववान् पर्वत इत्यादिभ्रमाव्यावृत्तेरिति । न च भावस्यापि स्वरूपसम्बन्धेन वृत्तित्वस्य पूर्वं साधितत्वात् कुतो नैतद्विवक्षासम्भव इति वाच्यम्; भावस्य स्वरूपसम्बन्धानभ्युपगन्तृमते तदसम्भवस्यैवाभिप्रेतत्वात्, एतदस्वर सेनैव वा दोषान्तरकथनाच्च, असंग्रहापत्तेश्चेति । आकाशाभावात्मकस्य साध्याभावाभावस्य स्वरूपसम्बन्धेनात्मनि सत्त्वादिति भावः । प्रमापदप्रतिपाद्यतावच्छेदकशरीरे तन्निवेशः शङ्काविषयोऽपि नेत्याशयेनाह — इहेति । प्रकृतलक्षण इत्यर्थः । उपलक्षणमेतदिति । तथा च धर्मिणि ज्ञाने तद्व्यक्तित्वावच्छिन्नाविषयकतया विषयितासम्बन्धावच्छिन्न तद्वयक्तित्वावच्छिन्नप्रतियोगिताकाभावसत्त्वाद्विषयितासम्बन्वावच्छिन्नप्रतियोगिताकघटत्वाभावसाध्यकव्यभिचारिण्यतिव्याप्तिरपि स्यादिति भावः । ननु यत्सम्बन्धावच्छिन्नयन्निष्ठप्रकारताशालिनिश्चयत्वावच्छिन्नं तादृशप्रतिबन्धकत्वमित्यादिरीत्या विवक्षैव न सम्भवति, प्रतियोगितायां तद्वयक्तित्वावच्छिन्नत्वस्य विवक्षितत्वेन तादृशप्रति - योगिताकाभाव एव स्वाधिकरणवृत्तित्वस्योपपादनीयत्वात् । तन्निश्चयस्य च ग्राह्यतावच्छेदकावच्छिन्न For Private And Personal Use Only

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215