________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५३
'न च' रत्नमालिat
न च स्वनिरूपितप्रकारताविशिष्टप्रकारताशालिबुद्धिं प्रति येन सम्बन्धेनाभावप्रकारकनिश्चयस्य विरोधिता, तत्सम्बन्धावच्छिन्नवृत्तित्वविवक्षया न कोऽपि दोषः । प्रकारतावैशिष्ट्यं सामानाधिकरण्य-स्वसजातीयत्वोभयसम्बन्धेन । साजात्यं स्वावच्छेदकावच्छिन्नत्व- निरवच्छिन्नत्वान्यतर रूपेणेति वाच्यम्। एवमपि घटत्वविशेष्यक घटभेदप्रकारकस्येदं घटभिन्नमित्यादिज्ञानस्य संग्रहापत्तेः । तत्र तादात्म्यसम्बन्धस्यापि तथात्वात्तेन सम्बन्धेन घटत्वात्मकघटभेदाभावस्य स्वाधिकरणे नूतनालोकः
कादावपि सत्त्वात् । स्वरूपसम्बन्वेन तद्विवक्षणे वह्नयभाववान् पर्वत इत्यादि भ्रमाव्यावृत्तेः कालिकसम्बन्धेनाकाशाभाववान् प्रमेयत्वादित्यादौ कालिकसम्बन्धावच्छिन्नप्रतियोगिता का काशाभावाभाववानात्मा इत्यादिप्रमाया असंग्रहापत्तेश्च । साध्यतावच्छेदकसम्बन्धेन तद्विवक्षया नेह निर्वाहः शङ्कयः, पर्वतनिष्ठो वह्नद्यभाव इत्यादिभ्रमाव्यावृत्तेः । असंग्रहापत्तेरिति । घटत्वत्वेन घटत्वविषयकज्ञानधर्मिकं यद् विषयतासम्बन्धेन घटत्वत्वविशिष्टप्रकारकज्ञानम्, तदसंग्रहस्याप्युपलक्षणमेतत् । नन्वत्र यत्सम्बन्धावच्छिन्न यन्निष्ठप्रकारताशालिनिश्चयत्वावच्छिन्नं तादृशप्रतिबन्धकत्वम्, तत्सम्बन्धावच्छिन्न तन्निष्ठस्वाधिकरणवृत्तित्वविवक्षणान्नायमसंग्रहः, घटभेदाभावनिष्ठतादृशप्रतिबन्धकतावच्छेदकप्रकारतायां समवायस्यैवावच्छेदकत्वात् ।
Acharya Shri Kailassagarsuri Gyanmandir
आलोकप्रकाशः
नात्मेति प्रमाया असंग्रहापत्तिरतः प्रकारतावच्छेदकसम्बन्धनिवेशः । व्याख्यायाम् — वह्नयभाववान् पर्वत इत्यादिभ्रमाव्यावृत्तेरिति । न च भावस्यापि स्वरूपसम्बन्धेन वृत्तित्वस्य पूर्वं साधितत्वात् कुतो नैतद्विवक्षासम्भव इति वाच्यम्; भावस्य स्वरूपसम्बन्धानभ्युपगन्तृमते तदसम्भवस्यैवाभिप्रेतत्वात्, एतदस्वर सेनैव वा दोषान्तरकथनाच्च, असंग्रहापत्तेश्चेति । आकाशाभावात्मकस्य साध्याभावाभावस्य स्वरूपसम्बन्धेनात्मनि सत्त्वादिति भावः । प्रमापदप्रतिपाद्यतावच्छेदकशरीरे तन्निवेशः शङ्काविषयोऽपि नेत्याशयेनाह — इहेति । प्रकृतलक्षण इत्यर्थः । उपलक्षणमेतदिति । तथा च धर्मिणि ज्ञाने तद्व्यक्तित्वावच्छिन्नाविषयकतया विषयितासम्बन्धावच्छिन्न तद्वयक्तित्वावच्छिन्नप्रतियोगिताकाभावसत्त्वाद्विषयितासम्बन्वावच्छिन्नप्रतियोगिताकघटत्वाभावसाध्यकव्यभिचारिण्यतिव्याप्तिरपि स्यादिति भावः । ननु यत्सम्बन्धावच्छिन्नयन्निष्ठप्रकारताशालिनिश्चयत्वावच्छिन्नं तादृशप्रतिबन्धकत्वमित्यादिरीत्या विवक्षैव न सम्भवति, प्रतियोगितायां तद्वयक्तित्वावच्छिन्नत्वस्य विवक्षितत्वेन तादृशप्रति - योगिताकाभाव एव स्वाधिकरणवृत्तित्वस्योपपादनीयत्वात् । तन्निश्चयस्य च ग्राह्यतावच्छेदकावच्छिन्न
For Private And Personal Use Only