________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तस्प्रकाशटिप्पण्योपबृंहिता इत्यादिज्ञानासंग्रहापत्तेः, तादृशज्ञानस्यात्मनिष्ठाकाशाभावरूपस्वाभावप्रतियोगितया स्वत्यधिकरणत्वात्। गुणो विशिष्टसत्ताभाववानित्यादौ विशिष्टसत्तावान् गुण इत्यादि विशिष्टवैशिष्टयावगाहिशानाव्यावृत्तेश्च, तद्वयक्तित्वावच्छिन्नगुणनिष्ठाभावप्रतियोगित्वस्य सत्तायां बाधात् । किञ्च, स्वनिरूपितप्रकारतावच्छेदकधर्मसम्बन्धावच्छिन्नप्रकारताशालिवुद्धित्वावच्छिन्नप्रतिवध्यतानिरूपितप्रतिबन्धकतावच्छेदकप्रकारतावच्छेदकसम्बन्धेन स्वाधिकरणवृत्तित्वमभावेऽवश्यं विवक्षणीयम् । इत्थश्च निरवच्छिन्नप्रकारताशालिभ्रमाव्यावृत्तिः।
नूतनालोकः ननु कालिकसम्बन्वेनाकाशाभाववान् प्रमेयत्वादित्यादौ कालिकसम्बन्धावच्छिन्नप्रतियोगिताकाकाशाभावाभाववानित्यादिज्ञानस्यासंग्रहेऽपि न क्षतिः, आकाशाभाव आत्मनिष्ठ इत्यादि प्रमामादायातिव्याप्तिवारणसम्भवादित्यत आह-गुणो विशिष्टसत्ताभाववानिति । विशिष्टवैशिष्ट्यावगाहिज्ञानेति । उपलक्षितवैशिष्ट्यावगाहिज्ञानस्य विषयविरोधविरहेणाप्रतिबन्धकत्वात्। अन्यथा विशिष्टसत्ताभावसाध्यकगुणपक्षकस्थले उपलक्षिवसत्तावहुणस्य बाधत्वापत्तेः । उक्तश्च “संयोगस्य द्वित्वावच्छिन्नप्रतियोगिताकत्वविरहेऽपि" इति दीधितिखण्डनावसरे सिद्धान्तलक्षणगादाधर्याम्-"विशिष्टवैशिष्टयावगाहिज्ञानस्यैव विशिष्टाभावबुद्धिविरोधित्वात्" इति । ननु तद्वयक्तित्वानां भेदविशिष्टान्यत्वेनानुगमे विशिष्टसत्तात्वस्यापि तादृशतया तदवच्छिन्नप्रतियोगिताकाभावमादाय भ्रमत्वोपपादनं सुशकमित्यत आह-किञ्चेति । अवश्यं विवक्षणीयमिति । अन्यथा अयोगोलकं धूमाभाववदित्यादिज्ञानासंग्रहापत्तेः । कालिकादियत्किञ्चित्सम्बन्धन धूमाभावाभावस्यायोगोल
आलोकप्रकाशः न्धेति । स्वं विशेष्यता । कालिकसम्बन्धावच्छिन्नप्रतियोगिताकधूमाभावत्वेन संयोगसम्बन्धावच्छिन्नप्रतियोगिताकधूमाभावागाहिबुद्धिं प्रति कालिकसम्बन्धेन धूमवत्ताबुद्धेविरोधित्वात्तत्सम्बन्धग्रहणप्रसक्त्या अयोगोलकं धूमाभाववदिति प्रमाया असंग्रहापत्तिरतः प्रकारतावच्छेदकधर्मेति । कालिकसम्बन्धेन कालिकसम्बन्धावच्छिन्नप्रतियोगिताकाकाशाभावाभाववानात्मेति बुद्धित्वावच्छिन्नप्रतिवध्यतानिरूपितप्रतिबन्धकतावच्छेदकस्वरूपसम्बन्धेनाकाशाभावात्मकस्य कालिकसम्बन्धावच्छिन्नप्रतियोगिताकाकाशाभावाभावाभावस्यात्मनि सत्त्वात् कालिकसम्बन्धावच्छिन्नप्रतियोगिताकाकाशाभावाभाववा
For Private And Personal Use Only