________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'नच' रत्नमालिका वह्नित्वावच्छिन्नवह्निनिष्ठप्रतियोगित्वावगाहिनो वह्नयभाषवान् पर्वत इति शानाव्यावृत्तेश्च ।
न च स्वाधिकरणनिष्ठाभावप्रतियोग्यभावप्रतियोगितावच्छेदकतद्वयक्तित्वाश्रयत्वमेव खव्यधिकरणत्वमिह विवक्षितम् । तथा च तादृशतद्वयक्तित्वाश्रयनिष्ठप्रकारतानिरूपिता या या विशेष्यता तत्तदनिरूपकत्वरूपं प्रमात्वं नोक्तशानस्येति वाच्यम् ; कालिकसम्बन्धावच्छिन्नप्रतियोगिताकाकाशाभावाभाववानात्मा
नूतनालोकः पादनं दीधितिकृतां सङ्गच्छते । अन्यथा प्रमेयत्वत्वावच्छिन्नस्वरूपपसम्बन्धावच्छिन्नप्रतियोगिताकत्वाप्रसिद्धथा तत्सम्बन्धेन प्रमेयत्वभ्रमासम्भवेन तदसाङ्गत्यापातात् । यद्यपि सौन्दलमते प्रमेयत्वत्वेन घटो नास्तीत्यत्र घटाभावे तादृशप्रतियोगिताकत्वं प्रसिद्धम् , तथापि संयोगसम्बन्धेनैकत्वप्रागभावविशिष्टघटवैशिष्टयावगाहिभ्रमानुरोधेन विशिष्टवैशिष्टयावगाहिबुद्धौ विशेषणतावच्छेदकावच्छिन्नत्वाविशेषितप्रतियोगिताकतत्तत्सम्बन्धस्यैव विशेषणसम्बन्धत्वं वक्तव्यम्। इत्थश्च निरुक्तज्ञानस्य स्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन स्वरूपतो वह्निविशेषणतापनवह्नित्वावगाहिनो न व्यावृत्तिरिति भावः।।
स्वाधिकरणनिष्ठेति। स्वाधिकरणनिष्ठो योऽभावप्रतियोग्यभावस्तन्निरूपितप्रतियोगितेत्यर्थः । केवलान्वयिनस्तद्वयक्तित्वेन तद्वयक्तितदन्यव्यक्त्युभयाभावस्य वारणायाभावप्रतियोगित्वमभावविशेषणम् । तत्तदनिरूपकत्वरूपं प्रमात्वमिति । विशेष्यताविशिष्टविशेष्यतानिरूपकत्वत्वावच्छिन्नप्रतियोगिताकाभाववत्त्वमिति निष्कर्षः । वैशिष्टयं तादात्म्यभेदविशिष्टान्यधर्मावच्छिन्नवाधिकरणनिष्ठव्यतिरेक्यभावप्रतियोगितासमानाधिकरण - प्रकारतानिरूपितत्वोभयसम्बन्धेन। भेदवैशिष्ट्यं स्वप्रतियोगिवृत्तित्व-स्वसामानाधिकरण्योभयसम्बन्धेनेति । नोक्तज्ञानस्येति । पूर्वोक्तस्वरूपतो घटत्वाद्यवगाहिज्ञानस्येत्यर्थः। कालिकेति। कालिकसम्बन्धेनाकाशाभाववान् प्रमेयत्वादित्यादावित्यादिः ।
आलोकप्रकाशः समानाधिकरणसाध्याभावप्रकारकत्वसम्पत्त्यर्थ समूहालम्बनरूपताया वक्तव्यत्वादिति भावः । तत्तत्सम्बन्धस्यैवेति । तत्तद्विशेषणसम्बन्धस्यैवेत्यर्थः । वक्तव्यमिति । एकत्वप्रागभावावच्छिन्नप्रतियोगिताकसंयोगसम्बन्धस्याप्रसिद्धेरिति भावः । स्वरूपत इति । धर्मिपारतन्यस्थले जातेः समवायेनैव स्वरूपतो भानमिति नियमस्याभावादिति भावः। मूले-स्वनिरूपितप्रकारतावच्छेदकधर्म सम्ब
For Private And Personal Use Only