________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतन लोकटीका - तत्प्रकाशटिप्पण्योपबृंहिता
नूतनालोकः
निरुक्तज्ञानस्य कथमव्यावृत्तिरिति वाच्यम्, यतो घटो नास्तीत्यादिबुद्धौ घटादेरभावांशे केवलप्रतियोगिताकत्वम्, घटत्वादेश्व स्वावच्छिन्नप्रतियोगिता कत्वं सम्बन्धः । अत एवाभिधेयत्वं प्रमेयत्वस्य व्यभिचारीत्यादिभ्रममादाय यथार्थपदसार्थक्यप्रति
For Private And Personal Use Only
८९
आलोकप्रकाशः
,
तत्समानाधिकरणभेदप्रतियोगितावच्छेदकत्वं वा । तज्जातिव्यभिचरितत्वञ्च तद्वयक्तित्वावच्छिन्नप्रतियोगिताकतदभावसामानाधिकरण्यम् । यद्यपि व्याप्यजातिमति नित्येऽपि कालिकादिसम्बन्धेन व्यापक जात्यवच्छिन्नस्य भेदो वर्तते, विरुद्धजातेरपि कालिकादिसम्बन्धेन सामानाधिकरण्यमस्ति; तथापि प्रकृते समवायेनावच्छेदकत्वं वृत्तित्वञ्च विवक्षितमित्यदोषः । गुणगतजातिसाङ्कर्यस्य हेतुतास्थले तु दैशिकविशेषणतया एव तथात्वं बोध्यम् । अथवा अन्यतरसम्बन्धेनैव तथात्वं विवक्षितमिति सर्वत्र करूप्यनिर्वाहः । यद्वा समवायेनावच्छेदकत्वस्थाने समवायेनावच्छेदकताशून्यं यत्समवेतम्, तदन्यत्वम्, समवायेन तदभाववति समवायेन वृत्तित्वस्थाने समवायेन तदवृत्तित्वे सति यत्समवेतं तदन्यत्वम्, तजातिसमानाधिकरणत्वस्थाने तजातिमदसमवेतत्वे सति यत्समवेतं तदन्यत्वञ्च निवेशनीयमिति जातिसाङ्कर्यस्य हेतुतास्थले नासिद्धिः, पक्षस्य समवेतत्वेऽसमवेतत्वे च निरुक्तविशिष्ट मेदस्याक्षतत्वात् । यदि चैतन्निरूपंकजातिभेदेन भिन्नमेव तत्तजातीनां विशिष्योपादानात् इत्थञ्च गुणगतजातिसाङ्कर्यहेतुकस्थले व्यभिचरितत्वविशेषणं व्यर्थमेव शुक्लत्वादिव्याप्यजात्यप्रसिद्धः, तत्परित्यागे च रूपत्वाद्यव्यापकतत्समानाधिकरणशुक्लत्वादेरिव शुक्लत्वाद्यव्यापक तत्समानाधिकरणस्योद्भूतत्वस्यापि जातित्वं स्यादित्यप्रयोजकत्वशङ्कायास इत्युच्यते, तदा जात्यव्यापकत्वे सति यजातिव्यभिचारि यत् तन्न तजातिसमानाधिकरणजातिरिति सामान्यतो व्याप्त्या घटत्वे मृत्त्वादिसमानाधिकरणजातित्वाभावः साध्यः । शुक्लत्वादिव्यापकरूपत्वादौ रूपत्वादिव्याप्यशुक्लत्वादौ च व्यभिचारवारणाय दलद्वयम् । वस्तुतस्तु स्वाव्यापकस्वव्यभिचारिजातित्वव्यापकविरोधप्रतियोगि यद्यत् तत्तद्भेदकूटं हेतुकृत्य घटत्वादौ जातिसङ्कीर्ण जातित्वाभावः साधनीयः । घटत्वाद्यव्यापकद्वयभिचारिमृत्त्वादिजातौ तद्विरोधासत्त्वेन घटत्वादेर्निरुक्तस्वानन्तर्भावात्, तादृशभेदकूटस्योभयमतसिद्धत्वात् । न च सत्ताव्यभिचारिजातैरप्रसिद्धया न तादृशं स्वं सत्तेति तत्र व्यभिचार इति वाच्यम् ; अपरजातित्वाभावस्यैव साध्यत्वापगमात्, तत्र साध्यसत्त्वेन व्यभि चारानवकाशादित्य ं विस्तरेण । असमूहालम्बनमादायापीति । अयं घट इत्यादिज्ञानस्य यत्
१२