________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८८
'न च' रत्नमालिका
आलोकप्रकाशः
3
प्रकृत्यर्थतावच्छेदकधर्म एव भावः, "प्रकृतिजन्यबोधे प्रकारीभूतो धर्मों भावः" इत्युक्तत्वात् । इत्थञ्च गन्धवत्त्वस्य प्रकृत्यर्थासाधारणधर्मत्वेऽपि प्रकृतिजन्यत्रोधे प्रकारताविरहेण न तस्य भावप्रत्ययार्थतापत्तिरिति वाच्यम् ; स्वरूपतः शक्यत्वासम्भवेन तदितरावृत्तित्वसहित निखिलतदृवृत्तित्वेनैव त्वप्रत्ययस्य शक्तिस्वीकारावश्यकतया पृथिवीत्वादिशब्दाद्गन्धादिप्रतीत्यापत्त्यपरिहारात् । न च कस्या अपि गन्धव्य केर्निखिल पृथिवीवृत्तित्वाभावेन तत्परिहारः सम्भवत्येवेति वाच्यम् एवं सति नानाव्यक्तिकस्य गुरुत्वादेर्यत्र प्रकृत्यर्थतावच्छेदकता, तत्र कस्याश्चिदपि गुरुत्वादिव्यक्तेर्निखिलगुरुत्ववदवृत्तित्वाद् गुरुत्वादिशब्दात्तः प्रतीत्यनुपपत्त्या तन्निष्ठभेदप्रतियोगितानवच्छेदकत्वरूपमेव निखिलतन्निष्ठत्वं वक्तव्यम् । तच्च प्रत्येकं तत्तनिष्ठभेदप्रतियोगितावच्छेदकस्यापि गुरुत्वस्यानुगततदनवच्छेदकावच्छिन्नस्यावश्यमभ्युपेयम् । नातस्तदसंग्रहः, तथा च तादृशं निखिलतन्नष्ठत्वं गन्धत्वावच्छिन्नस्यापीत्युक्तापत्तेरपरिहारात् । न चैवं गुरुत्वमित्यादितो गन्धादेरपि बोधापत्तिः, तस्यापि गुणत्वाद्यवच्छिन्नस्य गुर्वादिनिष्ठ भेदप्रतियोगिता नवच्छेदकत्वादिति वाच्यम्, गुणत्वाद्यवच्छिन्ने तदितरत्वव्यापकभेदप्रतियोगितावच्छेदकत्वरूपतदितर। वृत्तित्वसत्त्वेन तदापत्त्ययोगात् । तदितरत्वव्यापकभेदप्रतियोगितावच्छेदकतावच्छेदकत्वविशिष्टं यत्तन्निष्ठ भेदप्रतियोगितावच्छेदकतानवच्छेदकत्वम्, तद्विशिष्टस्य भावप्रत्ययप्रवृत्तिनिमित्तत्वात् । तदितरावृत्तित्वन्तु न तदितरवृत्तित्वसामान्याभावः, कालिकादिसम्बन्धेन घटत्वस्यापि पटादिरूपतदितरवृत्तित्वात् । अतः प्रकृत्यर्थतावच्छेदकता घटकसम्बन्धेनैव वृत्तेर्विवक्षणीयतया सत्वमित्यादौ तदितरावृत्तित्वाप्रसिद्धेः । तथा चानुगतानतिप्रसक्तं पक्षतावच्छेदकं दुर्वचमिति चेन्न; यतो लाघवाद्धर्मत्वमेव भावप्रत्ययप्रवृत्तिनिमित्तम् । धर्मत्वञ्च प्रकृत्यर्थतावच्छेदकताघटकसम्बन्धेन सम्बन्धित्वमेव । घटत्वमित्यादितो द्रव्यत्वादिबोधप्रसङ्गो भवतामपि समानः, द्रव्यत्वादेरपि घटत्वविशिष्टतया घटेतरत्वव्यापकभेदप्रतियोगितावच्छेदकत्वात् । एवं गुरुत्वमित्यादितोऽपि गुरुत्वादिसमनियतरसादिबोधो भवतामपि दुर्वारः । तदितरावृत्तित्वेन भासमाने धर्मे तत्प्रकृत्यर्थतावच्छेदकनिष्ठाधेयतासम्बन्धेन प्रकृत्यर्थस्यान्वयमुपगम्य तद्वारणे च धर्मत्वेन शक्तिमत्यध्याधेयत्वात्मकधर्मत्वे प्रकृत्यर्थतावच्छेदकनिष्ठत्वसहितनिरूपितत्वसम्बन्धेन प्रकृत्यर्थान्वयमुपगम्य तत्तदर्थतावच्छेदकनिष्ठाधेयताया धर्मान्तरेऽसवेनातिप्रसङ्गो वारणीयः । इत्थञ्च घटत्वशब्दबोध्यत्वमेव पक्षतावच्छेदकमनुगतानतिप्रसक्तम् । अथवा घटपदप्रवृत्तिनिमित्तत्वमेव तदित्यपि सुवचमिति । मुत्वा दिनेत्यादिपदाद्रजतत्वादिपरिग्रहः । तप्तजातिनिरूपितसाङ्कर्यस्य पृथगेव हेतुत्वं बोध्यम्, न तु मिलितस्य वैयर्थ्यात् । तजात्यव्यापकत्वे सति तजातिव्यभिचरितत्वे च सति तजातिसामानाधिकरण्यं तज्ज्ञातिसाङ्कर्यम् । अव्यापकत्वं तत्समानाधिकरणाभावप्रतियोगित्वम्,
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only