________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तस्प्रकाशटिप्पण्योपबृंहिता प्रकारतावच्छेदकसमवायसम्बन्धेन विशेष्यीभूताभावनिरूपितवृत्तित्वाप्रसिद्ध या शानान्तरीयविषयताया एव स्वपदेन ग्रहीतुं शक्यतया तदनिरूपकत्वमुक्तज्ञानस्येति ।
न च खाधिकरणत्वं स्वाधिकरणनिष्टाभावप्रतियोगितावच्छेदकधर्मावच्छिन्नत्वम् । तथा च तादृशधर्मावच्छिन्नप्रकारतानिरूपिता या या विशेष्यता तत्तदनिरूपकत्वरूपप्रमात्वाभावादुक्तज्ञानव्यावृत्तिरिति वाच्यम्; एवं सति इदन्त्वेन पटावगाहिनोऽयं घट इत्यादिशानस्याव्यावृत्त्या घटभिन्नत्वसाध्यकस्थलेऽव्याप्तेः, घटत्वनिष्ठप्रकारताया निरवच्छिन्नत्वात् । घटत्वेन वयभावांशे
नृतनालोकः काभाववत्त्वमिति निष्कर्षः। वैशिष्टयं च स्वनिरूपितत्व-स्वावच्छेदकधर्मसम्बन्धावच्छिन्नप्रतियोगिताकाभाववनिष्ठत्वोभयसम्बन्धेनेति ।
निरवच्छिन्नत्वादिति । घटत्वजातेः स्वरूपतो भानात्। न च घटत्वं न जातिः, मृत्त्वादिना सार्यात् । रजतादिमयेष्वपि तत्सत्त्वात् । किन्तु संस्थानविशेष एव, तथा च तस्य कथं स्वरूपतो भानमिति वाच्यम् ; मृत्त्वादिव्याप्यनानाघटत्वाभ्युपगमेन साङ्कर्याप्रसक्तेस्तस्य तथात्वे बाधकाभावादिति भावः । स्पष्टं चेदमवच्छेदकत्वनिरुक्तौ । असमूहालम्बनमादायाव्याप्तिमाहघटत्वेत्यादिना । न चाभावांशे वह्नित्वावच्छिन्नप्रतियोगिताकत्वेन वह्नयवगाहितया
आलोकप्रकाशः व्याख्यायां प्रामाण्यवादे स्पष्टेति ध्येयम् । पूर्वक्षणवृत्तित्वविशिष्टत्वादिनेति । न च विशिष्टाभावप्रतियोगित्वस्य शुद्धेऽनङ्गीकारादुक्तविशिष्टांभावप्रतियोगित्वं न वह्नयभावस्येति तथा च' इत्यादिविवक्षा व्ययति वाच्यम् ; एवमपि तद्वयक्तित्वादिना व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकवह्नयभावतदन्योभयाभावमादाय स्वाधिकरणनिष्ठाभावप्रतियोगित्वस्य तत्र सत्त्वेन तदावश्यकत्वात् । एतदभिप्रायेणैव तद्वयक्तित्वाद्यर्थकमादिपदमुपात्तम् । घटत्वं न जातिरित्यादि । अथात्र किं पक्षतावच्छेदकम् ? न तावद्धवृत्तिधर्मत्वम् , तस्य पृथिवीत्वादिसाधारण्येन बाधप्रसङ्गात् । नापि घटेतरासमवेतत्वे सति निखिलघटसमवेतत्वम्, किन्त्वित्याद्युत्तरग्रन्थविरोधापत्तेः । अवयवसंयोगप्रभेदात्मकस्य संस्थानविशेषस्य घटेतरेश्ववयवेषु समवेतत्वात् , घटासमवेतत्वाच्च घटत्वशब्दबोध्यत्वं तत् । एवञ्च न पृथिवीत्वादेः संग्रहः, असाधारणधर्मरूपभावस्यैव त्वप्रत्ययार्थत्वात् , "तस्य भावस्त्वतलौ” इत्यनुशासनादित्यपि न वाच्यम् , असाधारण्यस्य तत्तत्प्रकृत्यर्थेतरावृत्तित्वसहितनिखिलतत्तत्प्रकृत्यर्थवृत्ति वरूपतया पूर्वोक्तग्रन्थविरोधतादवस्थ्यात् , पृथिवीत्वमित्यादितो गन्धादिप्रतीत्यापत्तेश्च । न च
For Private And Personal Use Only