________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नूतनालोकटीका- तत्प्रकाशटिप्पण्योपबृंहिता
सत्त्वात् । ज्ञानवैशिष्ट्यावच्छिन्ना या प्रतिबन्धकता, या चासमानाधिकरणधर्मदर्शनविधया प्रतिबन्धकता, तदवच्छेदकप्रकारतावच्छेदकसम्बन्धत्वं कालिकादेरपीति तदव्यावृत्तेश्चेति चेत्सत्यम् । ईश्वरज्ञानावृत्तिविषयताशून्यत्वस्यैव तत्पदेन विवक्षितत्वाद् भ्रमयविषयताया ईश्वरज्ञानावृत्तितया भ्रम सामान्यव्यावृत्तिः । नूतना लोकः
J
Acharya Shri Kailassagarsuri Gyanmandir
६३
घनिष्ठतादृशप्रकारतायामेव तादात्म्यस्यावच्छेदकत्वात् । अस्तु वा तादृशज्ञानासंग्रह:, घटभेद एतद्वृत्तिरित्यादिज्ञानमादायैव तादात्म्येन घटसाध्यकघटत्वहेतुकव्यभिचारिण्यतिव्याप्तेर्वारयितुं शक्यत्वादित्यत आह-ज्ञानवैशिष्ट्यावच्छिन्नेति । कालिकसम्बन्धेन तद्वयक्तित्वादिव्यापको धूमाभावाभावः, कालिकसम्बन्धेन तद्वयक्तित्वादिमान् धूमाभावाभाववानिति वा यज्ज्ञानम्, तत्सहितस्य कालिकसम्बन्धेन तद्वचक्तित्वादिमदयोगोलकमित्यादिज्ञानस्य या ज्ञानवैशिष्टयावच्छिन्ना प्रतिबन्धकतेत्यर्थः । ज्ञानवैशिष्टयानवच्छिन्नत्व निवेशे त्वाह - या चेति । असमानाधिकरणधर्मदर्शनविधयेति । ग्राह्यासमानाधिकरणवत्तानिश्चयत्वेनेत्यर्थः । प्रतिबन्धकतेति । अत एव बाधशिरोमणी - "पक्षादेः साध्यासमानाधिकरणधर्मवत्त्वादिकमपि बाध एव" इत्युक्तम् । ईश्वरेति ज्ञाने नित्यत्वलाभायं, न तु नित्यज्ञानाधिकरणत्वरूपं सर्वशक्तिमत्त्वरूपं वा यदीश्वरत्वं तस्य प्रवेशः, गौरवात् । न चैवं सति भगवतः पर्वतत्ववह्नद्यभावत्वादिरूपेण निर्विकल्पकरूपेण वा तत्तद्वस्तुविषयकज्ञानकल्पनेनैव
आलोकप्रकाशः
For Private And Personal Use Only
बुद्धौ स्वरूपताग्राह्यबुद्धौ वा प्रतिबन्धकत्वादित्यत आह- अस्तु वेति । किञ्चिद्धर्मावच्छिन्नविशेष्यतानिरूपितासामानाधिकरण्यनिष्ठप्रकारताशालिनिश्चयस्य ज्ञानविशिष्टज्ञानत्वेनैव प्रतिबन्धकत्वादर्थ - माह - प्राह्येति । निश्चयत्येनेत्यर्थं इति । निरूपितत्वसम्बन्धावच्छिन्नग्राह्याधिकरणनिष्ठ प्रकारतानिरूपितप्रतियोगितासम्बन्धावच्छिन्नवृत्तित्वत्वावच्छिन्नप्रकारताविशिष्टप्रकारताशालिनिश्चयत्वेनैवावच्छेदान्न तादृशप्रतिबन्धकताया ज्ञानवैशिष्ट्या वच्छिन्नत्वम् । प्रकारता वैशिष्ट्यञ्च स्ववृत्तिसम्बन्धावच्छिन्नत्व - स्वनिरूपिताभावप्रकारतानिरूपितत्वोभयसम्बन्धेन । वृत्तित्वञ्च स्वनिष्ठ प्रकारतानिरूपितावच्छिन्नत्वप्रकारतानिरूपितत्वसम्बन्धेनेति भावः । मूले— कालिकादित्यादिपदेन स्वाश्रयात्वादेः परिग्रहः । तेन धूमाभावेऽयोगोलकवृत्तित्वाभावस्य कालिकसम्बन्धेन सत्त्वेऽपि न क्षतिरिति ध्येयम् । व्याख्याम् - सर्व शक्तिमत्त्वरूपं वेति । ईश्वरस्य सर्वशक्तिमत्त्वरूपता च सहस्रनामभाष्ये भगवत्पादैः प्रतिपादिता - "ईश्वरः सर्वशक्तिमत्तया ईश्वरः" इति ।