________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११
'नच' रत्नमालिका - न च समानाकारकशानेषु विषयताभेदपक्षे जन्यज्ञानासंग्रहः। न हि सर्वत्रेश्वरज्ञानमादायैव लक्षणसमन्वयसम्भवेन जन्यज्ञानासंग्रहेऽपि न क्षतिरिति शङ्कयम्; एवं सति यत्समानाधिकरणत्वविशेषणवैयापत्तेः। ईश्वरज्ञानस्य
नूतनालोकः सर्वज्ञत्वोपपत्तौ वह्नयभावादिमत्त्वेन ज्ञानकल्पने प्रमाणाभावादसम्भव इति वाच्यम् ; “यः सर्वज्ञः सर्ववित्" इति निरतिशयसार्वस्यप्रतिपादकमुण्डकश्रुतेरेव मानत्वात्। तत्र सर्वज्ञपदस्य तत्तद्वस्तुगतैर्घटत्वादिरूपयावत्सामान्यधर्मः, सर्ववित्पदस्य च तद्धटत्वादिरूपयावद्विशेषधमर्यावद्वस्तुविषयकवानवत्परत्वात् । अन्यथा पुनरुक्त्यापातात् । तदुक्तमात्मतत्वविवेकटिप्पण्याम्-"सर्व इति सामान्यतः, सर्वविदिति विशेषतः” इति। न च सर्वज्ञपदस्य प्रमेयत्वादिरूपेण सर्ववित्पदस्य च तद्वयक्तित्वादिरूपयत्किचिद्विशेषरूपेण सर्वविषयकज्ञानवत्परत्वकल्पनेनैव पुनरुक्तिपरिहारसम्भवे यावद्धर्मप्रकारेण ज्ञानवत्परत्वकल्पने मानाभाव इति वाच्यम् , विनिगमनाविरहेण भगवानस्मिन्निदं न वेत्तीति व्यवहाराभावेन च तत्सिद्धे. रिति भावः।
समानाकारकज्ञानेग्विति । ननु किमिदं समानाकारकत्वम् ? न तावन्मुख्यविशेष्यताविशिष्टमुख्यविशेष्यताकत्वपर्यवसितं मुख्यविशेष्यतासजातीयमुख्य
आलोकप्रकाशः मूले–यसमानाधिकरणबविशेषणवैयर्थ्यापत्तेरिति । इदं सामान्यपदवैयर्थ्यस्याप्युपलक्षणम् । ज्ञानभेदेन विषयताभेदपक्षे साध्याभावपदवत् तद्वैयर्थ्य मिष्टमेवेति याच्यते, तदायाह-ईश्वरज्ञानस्येति । लक्षणघटकस्वासम्भवाचेति । न चैतत्पक्षे पूर्वोक्तप्रमाविशेषणं नोपादेयमिति वाच्यम् ; भगवज्ञानस्यापि वह्नयमाववद्धदादिविषयकत्वेन साध्ववत्ताशानविरोधित्वासम्भवापत्तेः । ह्रदत्वेन हृदपर्वतोभयावगाहिनो हृदो वह्निमानिति ज्ञानस्य प्रमात्वापत्तेराह-यावदिति । व्याख्यायाम्- इदमिति । ज्ञानानां विषयत्वाभेदप्रयोजकमित्यर्थः । तेन घटवद्भूतलम् , घटवभूतलवान् देश इति ज्ञानयोघंटांशे समानाकारकत्वव्यवहारो लोके वर्तते, तच्च समानाकारकत्वमेकधर्मसम्बन्धावच्छिन्नघटनिष्ठविषयताकत्वमेवेति किमत्र जिज्ञास्यमिति शङ्कानवकाशः, तस्य विषयत्वाभेदप्रयोजकत्वाभावात् । अत्र ज्ञानयोविषयत्व भेदो नास्तीत्यस्त्रार्थः प्रथमं विचारणीयः। घटवभूतलमित्यकारकयोरपि ज्ञानयोयें घटविषयताभूतलविषयते तयोः परस्परभेदः सर्ववादिसम्मतः, अतस्तदीयानां घटघटत्वभूतलभूतलस्वतत्सम्बन्धविषयतानां परस्परमैक्यमित्येव तदर्थः। तत्प्रयोजकञ्च न घटादिविषयतानामेकधर्मसम्बन्धा
For Private And Personal Use Only