SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नूतनालोकटीका- सरप्रकाश टिप्पण्योपबृंहिता नूतनालोकः " Acharya Shri Kailassagarsuri Gyanmandir विशेष्यता कत्वम् । वैशिष्टयन सामानाधिकरण्यसहितस्वावच्छेदकावच्छिन्न स्वनिरूपितप्रकारताविशिष्टप्रकारतानिरूपितत्वोभयसम्बन्धेन । प्रकारता वैशिष्टयं ९५ आलोकप्रकाशः वच्छिन्नत्वमात्रम्, घटत्वादिनिष्ठनिरवच्छिन्न प्रकारतानां घटादिनिष्ठनिरवच्छिन्नविशेष्यतानाञ्च तदसम्भवात्, एकानेकघटादिविषयकयोर्ज्ञानयोः समानाकारकत्वापत्तेश्व । तस्माद्भिन्नज्ञानीययोर्ययोविषयतयोरभेदोऽभिमतः, तयोरभेदप्रयोजकं ज्ञाननिष्ठं समानाकारकत्वं स्वनिरूपितविषयतावृत्तिविषयतानिरूपकत्वरूपं बोध्यम् । वृत्तित्वञ्च स्वसमनियतत्व-स्वनिरूपितविषयतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकधर्मवृत्तित्वोभयसम्बन्धेन । धर्मवृत्तित्वं स्वनिरूपितविषयतात्वाववच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन । प्रथमस्वपदेन ज्ञानं ग्राह्यम् । द्वितीयतृतीयाभ्यां तदीयविषयता, चतुर्थेन ज्ञानान्तरविषयता च । निरूपितत्वञ्च साक्षात् परम्परा साधारणम् । प्रथमसम्बन्धनिवेशान्नैकानेकत्रटभूतलादिविषयकज्ञानयोः समानाकारकत्वापत्तिः । द्वितीयसम्बन्धनिवेशाच्च घटवद् भूतलम्, घटवद् भूतलवान् देश इत्यनयोर्न तदापत्तिः, दर्शितपर्याप्त्यनुयोगितावच्छेदकधर्म एकत्र देशावृत्तिस्तिरत्र तद्वृत्तिरिति भेदात् । इत्थञ्च नीलपर्वतः पर्वतनील इत्यनयोरपि न समानाकारकत्वापत्तिः प्रथमे पर्वतत्वनिष्ठप्रकारतानिरूपितविशेष्यता न नैल्यनिष्ठप्रकारतानिरूपिता, द्वितीये तु सा तन्निरूपितेति विषयतापर्याप्त्योर्भेदात् । एवमेवैकत्र द्वयमिति - रीत्या नैल्यपर्वतत्वोभयावगाहिज्ञानस्य दर्शितज्ञानद्वयाद्विलक्षणाकारत्वमेव तत्र निरवच्छिन्नविशेष्यतानिरूपितत्वस्य नैल्य पर्वतत्वनिष्ठयोर्द्वयोरपि विषयतयोः सत्त्वेन तत्रापि पर्याप्तिभेदात् । भूतलं घटवदित्यसमूहालम्बनस्य भूतलं घटवत् पटवच्चेति समूहालम्बनेन समानाकारकत्वमप्युपपद्यते, उभयत्र घटभूतलादिविषयतानां निरूप्यनिरूपकभावे वैलक्षण्याभावात् । भूतलं पटवदित्यंशे त्वसमानाकारकत्वं सकलतान्त्रिकसम्मतमिति । नन्वेकानेकघटादिनिष्ठविषयतयोर्भूतलं घटवदिति भिन्नज्ञानीययोरैक्यमेवास्तु, ज्ञानयोश्च समानाकारकत्वमभ्यस्तु । इत्थञ्च सम्बन्धकोटौं समनियतत्वनिवेशोऽपि मास्त्विति चेन्न, वस्तुतो भूतलवर्तिनमेकं घटं तद्वद् भूतलञ्चावगाहमानज्ञानस्य प्रमात्वापत्तिः, तद्भूतलस्यान्यत्रटाभाववत्त्वाद्वद्याभाववद्विशेष्यकत्वावच्छिन्नघटप्रकारकत्व - रूपभ्रमत्वस्य तज्ज्ञाने सम्भवात् प्रमाश्रमीयविषयतयोर्भेदस्यावश्यमभ्युपेयत्वात् । मुख्यविशेष्यताविशिष्टेति । अत्र मुख्यत्वोपादानान्नीलघटवद् भूतलं नीलपटवान् देश इत्यादिज्ञानयोर्न नैल्यनिष्ठ प्रकारतानिरूपितघटनिष्ठविशेष्यतामादाय समानाकारकत्वप्रसङ्गः । एकत्र तदुपादाने नीलो घटः, नीलघटवद् भूतलमिति ज्ञानयोः परस्परं समानाकारकत्वप्रसङ्गः । स्वावच्छेदकावच्छिन्न स्वेति । ) For Private And Personal Use Only
SR No.020673
Book TitleNa Cha Ratnamalika
Original Sutra AuthorN/A
AuthorSastra Sharma, Surati Narayanmani Tripathi
PublisherVaranaseya Sanskrit Vishvavidyalay
Publication Year
Total Pages215
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy