________________
Shri Mahavir Jain Aradhana Kendra
९६
www.kobatirth.org
• वच्छेदकता
'नव' रत्नमालिका
नूतनालोकः
स्वावच्छेदकधर्मसम्बन्धावच्छिन्नत्वसहित सामानाधिकरण्यसम्बन्धेनेति । घट इत्यादि -
न
ज्ञानानां समानाकारकत्वानुपपत्तेः, तंत्र विशेष्यता प्रकार तयोर्निरवच्छिन्नत्वात् । च मुख्यविशेष्यता वैशिष्टयस्य स्वसजातीयत्व - स्वनिरूपितप्रकारतासजातीयप्रकारितानिरूपितत्वोभयरूपस्य विवक्षणाददोषः । साजात्यच निरवच्छिन्नत्व - स्वावच्छेदकावच्छिन्नत्वान्यतररूपेणेति वाच्यम्; घटो रूपवान् रसवानिति ज्ञानस्यैकत्र द्वयमितिरीत्या रूपरसावगाहिनो घटो रूपवानितिज्ञानसमानाकारकत्वापत्तेः । न च स्वनिरूपितप्रकारता सजातीयप्रकार ता निरूपितत्व - स्वनिष्ठावच्छेदकता कप्रतियोगिताकभेदवत्त्वोभयस्य द्वितीय सम्बन्धत्वविवक्षणान्नेयमापत्तिः, स्वनिष्ठास्वनिरूपित प्रकारता सजातीयत्व सम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकता कभेदवत्प्रकारतानिरूपितत्वसम्बन्धावच्छिन्नेति वाच्यम्, एवमपि घटो रूपवानिति ज्ञानस्य पूर्वोक्तं यदेकत्र द्वयमिति रीत्या ज्ञानम्, तत्समानाकारकत्वापत्तेदुर्वारत्वादिति चेत्र केचित्, तत्समानाकारकत्वं नाम तदीयमुख्यविशेष्यतावृत्तित्वम् । वृत्तित्वञ्च स्वीयमुख्य विशेष्यता विशिष्टत्वसम्बन्धेन | वैशिष्टयन स्वसमनियतआलोकप्रकाशः "
1
।
स्वावच्छेदकता पर्यात्यधिकरणधर्मपर्याप्तावच्छेदकताकत्वेत्यर्थः । एवमुत्तरत्रापि । श्रन्यतररूपेणेति । अत्र समानाधिकरण्यमपि निवेशनीयम् । तेन घटत्वरूपत्वाभ्यां घट-रूप- तदन्यावगाहिज्ञानयोर्न समानाकारकत्वप्रसङ्गः । घटो रूपवान् रसवांश्चेति समूहालम्बनस्य घटो रूपवानित्यंशे घटो रूपवानिति ज्ञानसमा नाकारकत्वस्येष्टत्वादाह-एकत्र द्वयमिति रीत्येति । स्वनिष्ठावच्छेदकता प्रतियोगिताकभेदवत्वोभयस्येति । अत्र स्वनिरूपितप्रकारताविशिष्टत्वं द्वितीयसम्बन्धः | वैशिष्ट्यं स्वसजातीयप्रकारतानिरूपितत्व - स्वभिन्नप्रकारतानिरूपितत्वसम्बन्धावच्छिन्नस्वनिष्ठा वच्छेदकताकप्रतियोगिताक - भेदवत्त्वोभयसम्बन्धेनेति कुतो नोक्तमिति तु न शङ्कयम्; तथा सति 'एकत्र द्वयम्' इति रीत्या जायमानज्ञानयोः परस्परं समानाकारकत्वानुपपत्तिप्रसङ्गादिति ज्ञेयम् । स्वसम्नियतत्वेत्यादि । अत्र प्रथमसम्बन्धनिवेशान्न घटत्वेन विभिन्नघटावगाहिज्ञानयोः समानाकारकत्वप्रसङ्गः । समानाधिकरण्यमात्र निवेशनेन तादृशातिप्रसङ्गवारणेऽपि घटत्वेनैकानेकघटावगाहिज्ञानयोर्घटत्वेन घटावगाहिघटपटा वगाहिज्ञानयोः समानाकारकत्वप्रसङ्गः । अतस्तदुपेक्षा । समनियतत्वघटक दलद्वयमपि घटत्वेनैका नेकघट विषयकज्ञानयोर्वारणार्थमेव । तदीयमुख्य विशेष्यतावृत्तित्वमित्यत्र मुख्यत्वानुपादाने घटवद् भूतलमित्याकारकज्ञानस्य घटवद् भूतलवान्
1
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only