________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता
नूतनालोकः त्व-स्वनिरूपितप्रकारतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकधर्मवृत्तित्वोभयसम्बन्धेन। धर्मवृत्तित्वञ्च स्वनिरूपितप्रकारतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेनेत्याहुः । वस्तुतस्तु तत्समानाकारकत्वं तत्तत्प्रकारत्वादिविशिष्टत्वम् । वृत्तित्ववैशिष्टयश्च स्वावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावृत्तित्वसम्बन्धेन । अनुयोगितावृत्तित्वश्च स्वीयप्रकारत्वावच्छिन्नत्वसम्बन्धेन । घटवानित्यादिज्ञानीयप्रकारतामादाय घट इत्यादिज्ञानानाम् , घटवद्भूतलवानित्यादिज्ञानीयप्रकारतामादाय घटवद्भूतलमित्यादिज्ञानानाञ्च समानाकारकत्वमुपपादनीयम् । एवमन्यत्रापीति । सर्वत्रेश्वरज्ञानमादायैवेति । न चेयमाशङ्का कथं सङ्गच्छते ? प्रमाणाभावेनेश्वरज्ञाने प्रतिबन्धकत्वस्यैवासिद्धया व्यभिचारिसामान्येऽतिऽव्याप्तेरिति वाच्यम् , लाघवादीश्वरज्ञानसाधारणग्राह्याभावप्रकारकनिश्चयत्वेनैव प्रतिबन्धकत्वस्याङ्गीकार्यत्वात् । अन्यथा ईश्वरज्ञानमादायासम्भववारणाय लिङ्गज्ञानपदेन लिङ्गाज्ज्ञानमिति व्युत्पत्त्या जन्यज्ञानादिरूपार्थविशेषविवक्षणस्यावश्यकत्वात् “लिङ्गमविवक्षितम्" इति दीधित्यसाङ्गत्यापत्तेः । अत एवेश्वरज्ञानव्यावर्तकं न किमपि विशेषणं प्रतिबन्धकताघटितलक्षणेषूपादायि । वैयर्थ्यापत्तेरिति । कपिसंयोगादिसाध्यकस्थले कपिसंयोगाभाववान् वृक्ष इति ज्ञानसत्त्वेऽपि कपिसंयोगाभावोऽव्याप्यवृत्तिरिति बानस्याप्यावश्यकतया भगवज्ज्ञानस्य कपिसंयोगवत्ताबुद्धधप्रतिबन्धकत्वादव्याप्त्यप्रसक्तेरिति भावः ।
आलोकप्रकाशः देश इत्याकारकज्ञानसमानाकारकत्वापत्तिः । तदीयघटत्वावच्छिन्नप्रकारतानिरूपितभूतलत्वावच्छिन्नविशेष्यतायां स्वीयमुख्यविशेष्यताविशिष्टत्वसम्बन्धेनोक्तज्ञानस्य सत्वात् , ज्ञानवृत्तित्वघटकविशेष्यतायां मुख्यत्वानुपादान उक्तोत्तरज्ञानस्य पूर्वज्ञानसमानाकारकत्वप्रसङ्गः। द्वितीयसम्बन्धनिवेशान्न घटस्वेन घटावगाहिज्ञानस्य पटत्वेन घटावगाहिज्ञानस्य घटो रूपवान् घटो रसवानिति ज्ञानयोश्च समानाकारकवप्रसङ्ग इति दिक् । लाघवादाह-वस्तुतस्त्विति । प्रकारत्वादीति । आदिपदेन विशेष्यतादिपरिग्रहः । स्वीयप्रकारत्वावच्छिन्नत्वसम्बन्धेनेति । काञ्चनमयवह्निमान् वह्निकाञ्चनमयवानित्यादिज्ञानीयप्रकारतावच्छेदकतापर्याप्त्यो(लक्षण्यनिर्वाहार्थं पर्याप्त्यनुयोगितायां प्रकारत्वावच्छिन्नत्वस्याङ्गीकार्यत्वादित्याशयः। एतत्तत्वं प्रागुपदर्शितम् । उपादायीति । न च जातिमान् वह्नयभाववानित्यादिज्ञानव्यावर्तनायावश्यमुपादेयेनाव्यापकविषयताशून्यत्वविशेषणेनैवेश्वरज्ञानाव्यावृत्तर्न तत्र तद्वारकविशेषणापेक्षेति वाच्यम् , एवं सतीश्वरज्ञानमादायासम्भववारकतया
For Private And Personal Use Only