________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
९८
'न च' रत्नमालिका
समूहालम्बनरूपत्वात् समूहालम्बनादिव्यावर्तकं यत् पूर्वोक्तं प्रमाविशेषणम्, तच्छ्रन्यत्वेन लक्षणघटकत्वासम्भवाश्चेति 'वाच्यम् ; तत्पक्षे वृत्तितायां स्वविशिष्टविशेष्यतानिरूपकत्वसम्बन्धावच्छिन्नत्वस्य च प्रकृते विवक्षणीयतया जन्यज्ञानसंग्रह सम्भवात् । विशेष्यतायां स्ववैशिष्टयञ्च स्वाश्रयनिष्ठप्रकारतानिरूपितत्वस्वनिरूपितविशेष्यताश्रययावन्निष्ठत्वोभयसम्बन्धेनेति । अथवा हेतुग्रन्थोक्तस्य स्वानुयोगिनिष्ठविशेष्यतानिरूपितत्व - स्वप्रतियोगिनिष्ठत्व - स्वावच्छिन्नत्वैतत्त्रितय सम्बन्धेन सम्बन्धविशिष्टान्य प्रकारतानिरूपकत्वरूपं यदनुगतभ्रमत्वम्, तच्छून्यत्वस्यैव प्रकृते विवक्षणान्न कोऽपि दोष इति ।
नन्वेवमप्यभावव्यापककपिसंयोगाभावकालीनघटत्वादिना कपिसंयोगा
Acharya Shri Kailassagarsuri Gyanmandir
भाववान् वृक्ष इत्यादिज्ञानस्य तदभावनिष्ठव्यापकत्वप्रतियोगिमत्ताज्ञानविधया साध्यवत्ताज्ञानप्रतिबन्धकत्वादव्याप्तिः ।
नूतनालोकः
जन्यज्ञान संग्रहसम्भवादिति । ईश्वरज्ञानावृत्तिविषयता प्रकारतात्वेन निवेशनीया । तेन मुख्यविशेष्यताया उक्तसम्बन्धेनेश्वरज्ञानावृत्तित्वेऽपि न क्षतिः । लाघवादाह - अथवेति । वस्तुतस्तु सम्बन्धविशिष्टत्वं स्वावच्छिन्नत्व - स्वावच्छिन्नाधिकर णता विशिष्टत्वैतदुभयरूपं विवक्षणीयम् । अधिकरणतावैशिष्टयं स्वाश्रयनिष्ठविशेष्यतानिरूपितत्वस्वनिरूपकनिष्ठत्वोभयसम्बन्धेन । तेन समवायस्यैकत्वेऽपि न क्षतिः । इत्यादिज्ञानस्येति । आदिना कपिसंयोगाभाववदभाववत्कालीनो यो घटत्वेन संयोगाभावः, तद्वान् वृक्ष इत्यादिज्ञानपरिग्रहः ।
आलोकप्रकाशः
तादृशविशेषणस्यावश्यकत्वे जातित्वेन हृदत्वाद्यवगाहिज्ञानव्यावर्तकतया तदावश्यकताप्रतिपादनासाङ्गव्यापत्तेः । एकत्र द्वयमिति रीत्या वह्नयभावहदत्वोभयावगाहिज्ञानम्, कालिकादिसम्बन्धेन वह्नयभावाद्यवगाहिज्ञानं चादायासम्भवः, तद्रूपत्त्वस्य कालिकादिसम्बन्धेनान्यत्र सत्त्वादतिप्रसङ्गश्च स्यादिति यद्रूपावच्छिन्नविषयतेत्यनेन यद्रूपसहितप्रकारताया एव तत्र तत्र विवक्षणीयता तादृशविशेषणस्यानावश्यकत्वाच्च यद्रूपञ्च वह्नयभाववद्धदो नेति प्रतीतिसाक्षिकभेदप्रतियोगित्वम्, तत्साहित्यञ्च स्वावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकवृत्तित्वरूपम्, वृत्तित्वञ्च
For Private And Personal Use Only